________________
हृदयप्रदीप
૧૨૧ तदस्वतन्त्रं क्षणिक प्रयासकृत्, यतीश्वरा दूरतरं त्यजन्ति ||१८||
(उपेन्द्रवज्रा) गृहीतलिङ्गस्य च चेद्धनाशा, गृहीतलिङ्गो विषयाभिलाषी । गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि ॥१९।।
(उपजाति) ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः । . ते दाम्भिका वेषधराश्च धूर्ता, मनांसि लोकस्य तु रञ्जयन्ति ॥२०|| मुग्धश्च लोकोऽपि हि यत्र मार्गे, निवेशितस्तत्र रतिं करोति --- धूर्तस्य वाक्यैः परिमोहितानां, केषां न चित्तं भ्रमतीह लोके ||२१||
(इन्द्रवज्रा) ये निःस्पृहास्त्यक्तसमस्तरागास्तत्त्वैकनिष्ठा गलिताभिमानाः । संतोषपोषैकविलिनवाञ्छास्ते रञ्जयन्ति स्वमनो न लोकम् ॥२२।।
(उपजाति) तावद्विवादी
जनरअकञ्च , यावन्न चैवात्मरसे सुखज्ञः । चिन्तामणिं प्राप्य वरं हि लोके, जने जने कः कथयन् प्रयाति ॥२३॥