________________
૧ ૨૦
હૃદયપ્રદીપ कार्यं च किं ते परदोषदृष्ट्या , कार्यं च किं ते परचिन्तया च । वृथा कथं खिद्यसि बालबुद्धे, कुरु स्वकार्यं त्यज सर्वमन्यत् ||१२|| यस्मिन् कृते कर्मणि सौख्यलेशो, दुःखानुबन्धस्य · तथाऽस्ति नान्तः । मनोऽभितापो मरणं हि यावत्, मूर्योऽपि कुर्यात् खलु तन्न कर्म ||१३|| यदर्जितं वै वयसाऽखिलेन, ध्यानं तपो ज्ञानमुखं च सत्यम् । क्षणेन सर्वं प्रदहत्यहो तत्, कामो बली प्राप्य छलं यतीनाम् ॥१४।। बलादसौ. मोहरिपुर्जनानां , ज्ञानं विवेकं च निराकरोति । मोहाभिभूतं हि जगद्विनष्टं, तत्त्वावबोधादपयाति मोहः ॥१५।। सर्वत्र सर्वस्य सदा प्रवृत्ति१:खस्य नाशाय सुखस्य हेतोः । तथापि दु:खं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिरत्वम् ॥१६।। यत् कृत्रिमं वैषयिकादिसौख्यं, भ्रमन् भवे को न लभेत मर्त्यः । सर्वेषु
तच्चाधममध्यमेषु , यदृश्यते तत्र किमद्भुतं च ॥१७।। क्षुधातृषाकामविकाररोषहेतुश्च
तद्रेषजवद्वदन्ति ।