________________
૧૧૯
हृदयप्रदीप
(उपजाति) त्वङ्मांसमेदोऽस्थिपुरीषमूत्रपूर्णेऽनुरागः कुणपे कथं ते । । दृष्टा च वक्ता च विवेकरूप- . स्त्वमेव साक्षात् किमु मुह्यसीत्थम् ॥६।। धनं न केषां निधनं गतं वै, दरिद्रिणः के धनिनो न द्रष्टाः । दुःखैकहेत्वत्र धनेऽतितृष्णां, त्यक्त्वा सुखी स्यादिति मे विचारः ।।७।।
(इन्द्रवज्रा) संसारदुःखान्न परोऽस्ति रोगः, सम्यग्विचारात् परमौषधं न । तद्रोगदुःखस्य विनाशनाय, सच्छास्त्रतोऽयं क्रियते विचारः ।।८।। अनित्यताया यदि चेत् प्रतीतिस्तत्त्वस्य निष्ठा च . गुरुप्रसादात् । सुखी हि सर्वत्र जने वने च, नो चेद्वने चाथ जनेषु दुःखी ।।९।।
(उपजाति) मोहान्धकारे भ्रमतीह तावत्, संसारदुःखैश्च कदर्थ्यमानः । यावद्विवेकार्कमहोदयेन, यथास्थितं पश्यति नात्मरूपम् ॥१०।। अर्थो ह्यनर्थो बहुधा मतोऽयं, स्त्रीणां चरित्राणि शवोपमानि । विषेण तुल्या विषयाश्च तेषां , येषां हृदि स्वात्मलयानुभूतिः ॥११।।
"त)