________________
हृदयप्रदीप
(वसन्ततिलका) शब्दादिपञ्चविषयेषु विचेतनेषु, योऽन्तर्गतो हृदि विवेककलां व्यनक्ति । यस्माद् भवान्तरगतान्यपि चेष्टितानि, प्रादुर्भवन्त्यनुभवं तमिमं भजेथाः ॥१।।
(इन्द्रवज्रा) जानन्ति केचिन्न तु कर्तुमीशाः, कर्तुं क्षमा ये न च ते विदन्ति । जानन्ति तत्त्वं प्रभवन्ति कर्तुं, --ते. केऽपि लोके विरला भवन्ति ।।२।।
(रथोद्धता) सम्यग्विरक्तिर्ननु यस्य चित्ते, सम्यग्गुरुर्यस्य च तत्त्ववेत्ता । सदाऽनुभूत्या दृढनिश्चयो य. स्तस्यैव सिद्धिर्न हि चापरस्य ।।३।। विग्रहं कृमिनिकायसंकुलं, दुःखदं हृदि विवेचयन्ति ये । गुप्तिबद्धमिव चेतनं हि ते, मोचयन्ति तनुयन्त्रयन्त्रितम् ॥४।।
(इन्द्रवज्रा) भोगार्थमेतद् भविनां शरीरम् , ज्ञानार्थमेतत् किल योगिनां वै । जाता विषं चेद्विषया हि सम्यग् , ज्ञानात्ततः किं कुणपस्य पुष्ट्या ।।५।।