________________
૧૨૨
હૃદયપ્રદીપ षण्णां विरोधोऽपि च दर्शनानां, तथैव तेषां शतशश्च भेदाः । नानापथे . सर्वजनः प्रवृत्तः, को लोकमाराधयितुं समर्थः ॥२४।। तदेव राज्यं हि धनं तदेव, तपस्तदेवेह कला • च सैव । स्वस्थे भवेच्छीतलताऽऽशये चेत्, नो चेद् वृथा सर्वमिदं हि मन्ये ॥२५।।
(इन्द्रवज्रा) रुष्टैर्जनैः किं यदि चित्तशान्तिस्तुष्टैर्जनैः किं यदि चित्ततापः । प्रीणाति नो नैव दुनोति चान्यान्, स्वस्थः सदोदासपरो हि योगी ॥२६।।
(मन्दाक्रान्ता) एकः पापात् पतति नरके याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमात् मोक्षमेकः प्रयाति । सङ्गान्नूनं न भवति सुखं न . द्वितीयेन कार्य, तस्मादेको विचरति, सदाऽऽनन्दसौख्येन पूर्णः ॥२७।।
__(उपजाति) त्रैलोक्यमेतद् बहुभिर्जितं यै... मनोजये तेऽपि 'यतो न शक्ताः ।
मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकीविजयं वदन्ति ॥२८|| मनोलयान्नास्ति परो हि योगो, ज्ञानं तु तत्त्वार्थविचारणाच्च । |