________________
४९२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[हन्तूण हओ] हन् । क्त्वाप्र० । 'क्त्वस्तुमत्तूण०' (२।१४६) क्त्वा० → तूण० हन्तूण । क्तप्रत्यये 'विंशत्यादेर्लुक् (१।२८) अनुस्वारलोपः हओ ॥२४४||
ब्भो दुह-लिह-वह-रुधामुच्चातः ॥ ८।४।२४५ ॥ दुहादीनामन्त्यस्य कर्म-भावे द्विरुक्तो भो वा भवति, तत्संनियोगे क्यस्य च लुक, वहेरकारस्य च उकारः ॥ दुब्भइ दुहिज्जइ । लिब्भइ लिहिज्जइ । वुब्भइ वहिज्जइ । रुब्भइ रुन्धिज्जइ । भविष्यति-दुब्भिहिइ दुहिहिइ इत्यादि ।
[ब्धो दुह-लिह-वह-रुधामुच्चातः] ब्भ प्रथमा सि । दुह-लिह-वह-रुध् षष्ठी आम् । उत् प्रथमा सि । च प्रथमा सि । अत् षष्ठी ङस् ।
[ दुब्भइ दुहिज्जइ] 'दुहीक क्षरणे' (११२७) दुह् (२) । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन वा ह० → ब्भ० । यत्र ब्भस्तत्र क्यलुक् । द्वितीये 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० दुब्भइ दुहिज्जइ ।
[लिब्भइ लिहिज्जइ ] "लिहीक् आस्वादने' (११२९) लिह । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा ह० → ब्भ० । यत्र ब्भस्तत्र क्यलुक् । द्वितीये 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० लिब्भइ लिहिज्जइ ।।
[वुब्भइ वहिज्जइ] 'वहीं प्रापणे' (९९६) वह (२) । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा ह० → ब्भ० :- क्यलुक्- व० → वु० । द्वितीये 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'लोकात्' (१।१।३) वहिज्जते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वुब्भइ वहिज्जइ ।
[रुब्भइ रुन्धिज्जइ] 'रुधूपी आवरणे' (१४७३) रुध् (२) । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा ध० → ब्भ० - क्यलुक् । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । द्वितीये 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'रुधो न्ध-म्भौ च' (४।२१८) ध० → ध० । 'लोकात्' (१।१।३) रुन्धिज्जते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० रुब्भइ रुन्धिज्जइ ।
[दुब्भिहिइ दुहिहिइ ] दुह (२) । भविष्यन्ती स्यते । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । अनेन वा ह० → ब्भ० । 'एच्च क्त्वा-तुम्-तव्य०' (३.१५७) ब्भ० → ब्भि० - ह० → हि० दुब्भिहिइ दुहिहिइ ॥२४५॥
दहो ज्झः ॥ ८।४।२४६ ॥ दहोऽन्त्यस्य कर्म-भावे द्विरुक्तो झो वा भवति, तत्संनियोगे क्यस्य च लुक् ॥ डज्झइ डहिज्जइ । भविष्यति - डज्झिहिइ डहिहिइ ॥
[दहो ज्झः] दह् षष्ठी ङस् । ज्झ प्रथमा सि । . [डज्झइ डहिज्जइ ] 'दहं भस्मीकरणे' (५५२) दह । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा हस्य ज्झ-क्यस्य च लुक् । 'दंश-दहोः' (१।२१८) द० → ड० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० डज्झइ।
पक्षे- दह् । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज । 'लोकात्' (१।१२३) दहिज्जते । 'दंश-दहोः' (१।२१८) द० → ड० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० डहिज्जइ।