________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४५३
घूर्णो घुल-घोल-घुम्म-पहल्लाः ॥ ८।४।११७ ॥ घूर्णेते चत्वार आदेशा भवन्ति ॥ घुलइ । घोलइ । घुम्मइ । पहल्लइ ।। [घूर्णो घुल-घोल-घुम्म-पहल्ला: ] घूर्ण षष्ठी ङस् । घुल-घोल-घुम्म-पहल्ल प्रथमा जस् । [ घुलइ-घोलइ-घुम्मइ-पहल्लइ ] 'घूर्णि भ्रमणे' (७०९) घूर्ण । वर्त० ते । अनेन चत्वार आदेशाः । भ्रमतीत्यर्थः ॥११७॥
विवृतेसः ॥ ८।४।११८ ॥ विवृतेढस इत्यादेशो वा भवति || ढंसइ । विवट्टइ ॥ [विवृतेर्हसः] विवृति षष्ठी ङस् । ढंस प्रथमा सि ।
पक्षे- [विवइ ] विपूर्व० 'वृतूङ् वर्तने' (९५५) वृत् । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'ऋवर्णस्यारः' (४।२३४) अर० । 'क्वथ-वर्धा ढः' (४।२२०) इत्यत्र कृतगुणस्य वर्ध इति निर्देशात् उपान्त्य ऋतोऽपि गुणः । 'र्तस्याऽधूर्तादौ' (२।३०) र्तस्य ट० । 'अनादौ०' (२।८९) द्वित्वं-ट० →ट्ट० विवइ ॥११८॥
क्वथेरट्टः ॥ ८।४।११९ ॥ क्वथेरद्र इत्यादेशो वा भवति ॥ अट्टइ । कढइ ॥ [क्वथेरट्टः ] क्वथि षष्ठी ङस् । अट्ट प्रथमा सि ।
पक्षे- [कढइ] 'क्वथे निष्पाके (९६४) क्वथ् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१२३) क्वथति । 'सर्वत्र ल-व०' (२२७९) व्लुक् । 'क्वथ-वर्धा ढः' (४।२२०) थ० → ढ० कढइ ॥११९॥
ग्रन्थो गण्ठः ॥ ८।४।१२० ॥ ग्रन्थेर्गण्ठ इत्यादेशो भवति ॥ गण्ठइ । गण्ठी ॥ [ग्रन्थो गण्ठः] ग्रन्थ् षष्ठी ङस् । गण्ठ प्रथमा सि ।
पक्षे- [गण्ठी] 'ग्रन्थश् सन्दर्भे' (१५४८) ग्रन्थ् । ग्रन्थनं = ग्रन्थिः । 'पदि-पठि०' (उणा०६०७) इप्र० । अनेन गण्ठ आदेशः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यञ्जनस्य' (१२११) स्लुक् गण्ठी ॥१२०॥
मन्थेघुसल-विरोलौ ॥ ८।४।१२१ ॥ मन्थेघुसल-विरोल इत्यादेशौ वा भवतः ॥ घुसलइ । विरोलइ । मन्थइ । [ मन्थेघुसल-विरोलौ] मन्थि षष्ठी ङस् । घुसल-विरोल प्रथमा औ।
पक्षे- [मन्थइ ] 'मन्थश् विलोडने' (१५४७) मन्थ् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) मन्थति । 'त्यादीनामाद्य०' (३।१३९) ति० → इ० मन्थइ ॥१२१॥
हलादेरवअच्छः ॥ ८।४।१२२ ॥ हलादतेय॑न्तस्या-ऽण्यन्तस्य च अवअच्छ इत्यादेशो भवति ॥ अवअच्छइ । हलादते हलादयते वा । इकारो ण्यन्तस्यापि परिग्रहार्थः ॥
[हलादेरवअच्छ: ] हलादि षष्ठी ङस् । अवअच्छ प्रथमा सि । १. B. C. E. I. J. M. ग्रन्थेर्गण्ठः ।