________________
व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
पक्षे [मज्जइ ] 'टुमस्जोंत् शुद्धौ' (१३५२) मस्ज् । वर्त्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) मस्जति । 'क-ग-ट-ड०' (२२७७) स्लुक् । 'अनादौ०' (२८९) द्वित्वम् ज्ज० । 'त्यादीनामा० ' ( ३।१३९) तिव्० इ० मज्जइ ॥ १०१ ॥
४५०
पुञ्जरारोल - वमालौ ॥ ८|४|१०२ ॥
पुञ्जरेतावादेशौ वा भवतः ॥ आरोलइ । वमालइ । पुञ्जइ ॥
[ पुञ्जेरारोल- वमालौ ] पुञ्चि षष्ठी ङस् । आरोल - वमाल प्रथमा औ ॥
पक्षे - [पुञ्जइ ] " पुञ्जि सौत्रो धातुः (?) पुञ्ज । पुञ्जं करोतीति । 'णिज्बहुलं नाम्नः कृगादिषु' (३|४|४२) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच्० → अत्० । 'लोकात्' (१।१।३) पुञ्जति । 'त्यादीनामाद्य०' (३|१३९) तिव्० पुञ्जइ । राशीकरोतीत्यर्थः ॥ १०२ ॥
इ०
लस्जेर्जीहः ॥ ८|४|१०३ ॥
-
लज्जतेर्जीह इत्यादेशो वा भवति ॥ जीहइ । लज्जइ ॥
[लस्जेर्जीहः ] लस्जि षष्ठी ङस् । जीह प्रथमा सि ।
पक्षे [ लज्जइ ] 'ओलस्जैति व्रीडे' (१४७०) लस्ज् । वर्त्त० ते । 'व्यञ्जनाद० ' ( ४।२३९) अत् । 'लोकात् ' (१|१|३) लस्जते । 'क-ग-ट-ड०' (२।७७) स्लुक् । 'अनादौ०' (२।८९) द्वित्वम् ज्ज० । 'त्यादीनामाद्य०' (३।१३९) ते० इ० लज्जइ ॥ १०३ ॥
तिजेरोसुक्कः ॥ ८।४।१०४ ॥
तिजेरोसुक्क इत्यादेशो वा भवति ॥ ओसुक्कइ । अणं ॥
[ तिजेरोसुक्कः ] तिजि षष्ठी ङस् । ओसुक्क प्रथमा सि ।
पक्षे [तेअणं ] 'तिजि क्षमा- निशानयो:' (६६७) तिज् । ते (ति) ज्यते इति तेजनम् । अनट्प्र० → अन । 'लोकात् ' (१|१|३) तिजन । 'युवर्णस्य गुणः' (४।२३७) ति० ते० । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो०' (१।१८०) अ० य० । 'नो णः' (१।२२८) न० ण० । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः तेयणं ॥ १०४॥
मृजेरुग्घुस - लुञ्छ- पुञ्छ- पुंस - फुस - पुस - लुह-हुल- रोसाणाः ॥ ८।४।१०५ ॥ मृजेरेते नवादेशा वा भवन्ति ॥
उग्घुसइ । लुञ्छइ । पुञ्छइ । पुंसइ । फुसइ । पुसइ । लुहइ । हुलइ । रोसाणइ । पक्षे मज्जइ ॥
[ मृजेरुग्घुस - लुञ्छ- पुञ्छ - पुंस- फुस - पुस- लुह-हुल- रोसाणा: ] मृणि षष्ठी ङस् । उग्घुस - लुञ्छ- पुञ्छ- पुंस-फुसपुस - लुह - हुल- रोसाण प्रथमा जस् ।
पक्षे - [ मज्जइ ] 'मृजौक् शुद्धौ' (१०९७) मृज् । वर्त्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात् ' (१|१|३) मृजति । 'ऋतोऽत्' (१।१२६) मृ० म० । 'शकादीनां द्वित्वम्' (४।२३०) द्वित्वम् ज्ज० । 'त्यादी०' (३|१३९) तिव्० → इ० मज्जइ । शुद्धि करोतीत्यर्थः ॥ १०५ ॥ १. सौत्रादौ - 'पञ्ज रोधे' ।