________________
४४२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
हो-हव-हवाः
॥ ८।४।६० ॥
'भुवेर्धातोर्हो हुव-हव इत्येते आदेशा वा भवन्ति ।
होइ । होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति । पक्षे - भवइ । परिहीण-विहवो । भविउं । पभवइ । परिभवइ । संभवइ । क्वचिदन्यदपि-उब्भुअइ भुतं ।
[ भुवेर्हो-हुव-हवाः ] भुवि षष्ठी ङस् । हो-हुव-हव प्रथमा जस् ।
पक्षे- [भविउं] 'भू सत्तायाम्' (१) भू । तुम्प्र० । 'उवर्णस्याऽवः' (४।२३३) उ० → अव० - भव० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१॥३) भवतुम् । “एच्च क्त्वा-तुम्०' (३१५७) इ०-व० → वि० । 'कग-च-ज०' (१।१७७) लुक् भविउं । क्वचिदन्यदेवादेशः स्यात्
[उब्भुअइ भुत्तं] उत्पूर्व० भू । अत्र भुअ आदेशः । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ०' (२१८९) द्वित्वम् - भभुअ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वभस्य बः । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० उब्भुअइ इत्यादेशः ॥६॥
अविति हुः ॥ ८।४।६१ ॥ विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा भवति ॥ हुन्ति । भवन् → हुन्तो । अवितीति किम् ? होइ । [अविति हुः] अवित् सप्तमी ङि । हु प्रथमा सि ।
[हुन्ति] 'भू सत्तायाम्' (१) भू । वर्त० अन्ति । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३।१४२) अन्ति० ,न्ति । अनेन भू० → हु० हुन्ति ।
[हुन्तो] भू । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'शत्रानशः' (३।१८१) अत्० → न्त० । अनेन भू० → हु० हुन्तो।
पक्षे- [होइ ] भू । वर्त० तिव् । 'भुवे:०' (४।६०) भू० → हो० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० होइ ॥६॥
पृथक्-स्पष्टे णिव्वडः ॥ ८।४।६२ ॥ पृथग्भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडइ । पृथक् स्पष्टो वा भवतीत्यर्थः ॥ [पृथक्-स्पष्टे णिव्वडः] पृथक्-स्पष्ट सप्तमी ङि । णिव्वड प्रथमा सि ।
[णिव्वडइ] 'भू सत्तायाम्' (१) भू । वर्त० तिव् । अनेन भू० → णिव्वड इति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० णिव्वडइ ॥६२॥
प्रभौ हुप्पो वा ॥ ८।४।६३ ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ।। प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गे च्चिअ न पहुप्पइ । पक्षे-पभवेइ ।।
१. H. M. भुवो० । २. H. I. J. भत्तं ।