________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४४१
निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः ॥ ८४५५ ॥ निलीङ एते षडादेशा वा भवन्ति | णिलीअइ । णिलुक्कइ । णिरिग्घइ । लुक्कइ । लिक्कइ । ल्हिक्कइ । निलिज्जइ ॥
[निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः] निलीङि षष्ठी ङस् । णिलीअ-णिलुक्क-णिरिग्घ-लुक्कलिक्क-ल्हिक्क प्रथमा जस् ।
पक्षे- [निलिज्जइ ] 'लींच् श्लेषणे' (१२४८) ली, निपूर्व० । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य। 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'स्वराणां स्वराः' (४।२३८) ली० → लि. निलिज्जइ ॥५६॥
विलीडेर्विरा ॥ ८४५६ ॥ विलीडेविरा इत्यादेशो वा भवति ॥ विराइ । विलिज्जइ ॥ [विलीडेविरा] विलीङि षष्ठी ङस् । विरा प्रथमा सि ।
पक्षे- [विलिज्जइ ] 'लींच् श्लेषणे' (१२४८) ली, विपूर्व० । वर्त० ते । 'मध्ये च स्वरान्ताद्वा' (३।१७८) ज्ज आगमः। 'स्वराणां स्वराः' (४।२३८) ली० → लि. विलिज्जइ ॥५६॥
रुके रुञ्ज-रण्टौ ॥८४५७॥
रौतेरेतावादेशौ वा भवतः ।। रुञ्जइ । रण्टइ । रवइ । [रुके रुञ्ज-रण्टौ] रुकि षष्ठी ङस् । रुञ्ज-रण्ट प्रथमा औ ।
पक्षे- [रवइ ] टुक्षु-रु शब्दे' (१०८५) रु । वर्त० तिव् । 'स्वरादनतो वा' (४।२४०) अत् । 'उवर्ण०' (४।२३३) अव० रवइ ।।५७॥
श्रुटेहणः ॥ ८४.५८ ॥ शणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ ॥ [श्रुटेहणः] श्रुटि षष्ठी ङस् । हण प्रथमा सि ।।
पक्षे- [सुणइ ] 'श्रृंट् श्रवणे' (१२९६) श्रु । वर्त० तिव् । 'चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो हुस्वश्च' (४।२४१) ण आगमः । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) शु० → सु० सुणइ ॥५८॥
धूगेधुंवः ॥ ८४५९ ॥ धुनाते व इत्यादेशो वा भवति ॥ धुवइ । धुणइ ॥ [धूगेधुंवः] धूगि षष्ठी ङस् । धुव प्रथमा सि ।
पक्षे- [ धुणइ ] 'धूगट् कम्पने' (१२९१) धू । वर्त० तिव् । 'चि-जि-श्रु-हु०' (४।२४१) ण आगम:- पूर्वस्य च हस्वः धुणइ ॥५९॥ १. I. रौतेः ।