________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[जेप्पि चएप्पिणु सयल धर.........] अस्यार्थः- शान्तिना तीर्थङ्करेण विना सकलां धरां जेतुं त्यक्तुं तपोलातुं पालयितुं कः शक्नोति भुवनेऽपीत्यर्थः ।
[चएप्पिणु] 'त्यजं हानौ' (१७२) त्यज् । त्यजनाय = त्यक्तुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । 'त्यजेश्चय-तर-तीर-पाराः' (४।८६) त्यज्० → चय० । अनेन तुम्० → एप्पिणु० । 'क-ग-च-ज०' (१।१७७) य्लुक् । 'लुक् (१।१०) अलोपः । 'लोकात्' (१।१।३) चए० चएप्पिणु।
[जेप्पि] 'जिं अभिभवे' (८) जि । तुम्प्र० । अनेन तुम्० → एप्पि० । 'लुक् (१।१०) इलुक् । 'लोकात्' (१।१।३) जे० जेप्पि ।
[लेविणु] 'लांक् आदाने' (१०६८) ला । तुम्प्र० । अनेन तुम्० → एविणु० । 'लुक् (१।१०) आलुक् । 'लोकात्' (१।१।३) ले० लेविणु । [पालेवि] पाल-तुम्प्र० । अनेन तुम्० → एवि० पालेवि ॥४४१॥
गमेरेप्पिण्वेण्प्योरेलुंग् वा ॥ ८।४।४४२ ॥ अपभ्रंशे गमेर्धातोः परयोरेप्पिणु-एप्पि इत्यादेशयोरेकारस्य लुग् वा भवति ॥ गंपिणु वाणारसिहि नर अह उज्जेणिहिं गंपि । मुआ परावहिं परम-पउ दिव्वंतरई म जंपि ॥१॥ पक्षे- गंग गमेप्पिणु जो मुअई जो सिव-तित्थु(त्थ) गमेप्पि । कीलदि तिदसावास-गउ सो जम-लोउ जिणेप्पि ॥२॥
[गमेरेप्पिण्वेप्योरेलुंग्वा ] गमि षष्ठी ङस् । एप्पिणु-एप्पि षष्ठी ओस् । ए षष्ठी ङस् । लुक् प्रथमा सि । वा प्रथमा सि ।
[गंपिणु वाणारसिहि नर..........]
अस्यार्थ:- ये नरा वाणारस्यां गत्वाऽथ उज्जयिन्यां गत्वा मृताः ते परमपदं प्राप्नुवन्ति । दिव्यान्तराणि तीर्थान्तराणि मा कथयेत्यर्थः । मृता इत्यत्र म्रियन्ते इति । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) इत्यनेन वर्तमानेऽपि क्तप्रत्ययः ।
[गंपिणु गंपि] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लुं गतौ' (३९६) गम् (२)। क्त्वाप्र० । 'एप्प्येप्पिण्वेव्येविणवः' (४|४४०) क्त्वा० → एप्पिणु०-एप्पि० । अनेन वा एकारलोप: गंपिणु गंपि ।
[गंग गमेप्पिणु जो मुअ...........]
अस्यार्थः- यो गङ्गां गत्वा मृतः, यश्च शिवतीर्थं गत्वा मृतः, स त्रिदशावासं-देवलोकं गतः सन् क्रीडति । किंकृत्वा ? यमलोकं - मरणं जित्वेत्यर्थः । पक्षे
[गमेप्पिणु गमेप्पि] गम् (२).। क्त्वाप्र० । 'एप्प्येप्पिण्वे०' (४।४४०) क्त्वा० → एप्पिणु० - एप्पि० । 'लोकात्' (१।१।३) गमेप्पिणु० गमेप्पि० ॥४४२॥ १. म. शान्तिनाथ । २. G. मुअउ ।