________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
६१३
रक्खइ सा विस-हारिणि बे कर चुम्बिवि जीउ । पडिबिम्बिअ-मुंजालु जलु जेहिं अ-डोहिउ पीउ ॥३।। बाह विछोडवि जाहि तुहुँ हउं तेव-इ को दोसु ? । हिअय-ट्ठिउ जइ नीसरहि जाणउं मुंज ! स-रोसु ॥४॥ [क्त्व इ-इउ-इवि-अवयः] क्त्वा षष्ठी ङस् । इ-इउ-अवि प्रथमा जस् । [हिअडा ! जड़ वेरिअ घणा............]
अस्यार्थ:- हे हृदय ! यदि रिपवो घनास्ततः किं आकाशे आरुहामः ? अस्माकं द्वौ हस्तौ । यदि पुनम्रियामहे तर्हि मारयित्वेत्यर्थः ।
[मारि] मृ-णिगप्र० । 'ऋवर्णस्या०' (४।२३४) मर० । णित्त्वाद् वृद्धिः - म० → मा० । मारणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । अनेन क्त्वाप्रत्ययस्य इ० । 'लोकात्' (११।३) रि० मारि ।
[गय-घड भज्जिउ जंति] पूर्व लिखितम् [४।३९५-५] ।
[भज्जिउ] 'भञ्जोंप आमर्दने' (१४८६) भञ्ज । क्त्वाप्र० । 'तक्ष्यादीनां छोल्लादयः' (४।३९५) भञ्ज० → भज्ज० । अनेन क्त्वाप्रत्ययस्य इउ० । 'लोकात्' (१।१३) भज्जिउ० ।
[रक्खइ सा विस-हारिणि.... ............]
अस्यार्थ:- सा विषहारिणी पानीयहारिका तौ करौ चुम्बित्वा जीवितं रक्षति । तौ कौ ? याभ्यां कराभ्यां प्रतिबिम्बितमुञ्जालं जलमनवगाह्य पीतमित्यर्थः ।
[चुम्बिवि] 'चुबुकि चुम्बने' ( ) ('चुबु वक्त्रसंयोगे' (३७१) ) चुब् । 'उदितः स्वरा०' (४।४।९८) नोऽन्तः । चुम्बनं पूर्वम् । क्त्वाप्र० । अनेन क्त्वा० → इवि० । 'लोकात्' (१।१३) चुम्बिवि० ।
[बाह विछोडवि जाहि तुई...........]
अस्यार्थः- मम बाहू विच्छोड्य त्वं यासि । भवतु । तथा को दोषः ? । हे मुञ्ज ! हृदयस्थितस्त्वं यदि निःसरसि तर्हि जाने सरोष इत्यर्थः ।
[विछोडवि] विपूर्व० 'मुलुंती मोक्षणे' (१३२०) मुच् । 'तक्ष्यादीनां छोल्लादयः' (४।३९५) विमुच्० → विछोड । क्त्वाप्र० । अनेन क्त्वा० → अवि० । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१३) डवि० विछोडवि ॥४३९॥
एण्येप्पिण्वेव्येविणवः ॥ ८।४।४४०॥ अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि-एप्पिणु-एवि-एविणु इत्येते चत्वार आदेशा भवन्ति ॥
जेप्पि असेसु कसाय-बलु देप्पिणु अभउ जयस्सु । लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥१॥ [एण्येप्पिण्वेव्येविणवः] एप्पि-एप्पिणु-एवि-एविणु प्रथमा जस् ।
१. G. वि + छुटण् छेदने (१५९७) - यपि विच्छोट्य । 'टो डः' (१।१९५) ट० → ड० ।