________________
६१२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
॥ एवा ॥ सोएवा पर वारिआ पुष्फवईहिं समाणु ।
जग्गेवा पुणु को धरइ ? जइ सो वेउ पमाणु ॥३॥ [तव्यस्य इएव्वउं-एव्वउं-एवा] तव्य षष्ठी ङस् । इएव्वउं-एव्वउं-एवा प्रथमा जस् । [एउ गृण्हेप्पिणु धुं मई.............]
अस्यार्थ:- केनापि सिद्धपुरुषेण विद्यासिद्धये नायिका प्रति धनादिकं दत्त्वा भर्तरि प्रार्थिते नायिका उक्तिरियम् । एतद् गृहीत्वा यन्मया यदि प्रिय उद्वार्यते - त्यज्यते तर्हि मम कर्तव्यं किमपि नापि पर-केवलं मर्तव्यमेव दीयते इत्यर्थः ।
[करिएव्वउं] कृ-तव्यप्र० । 'ऋवर्णस्या०' (४।२३४) कर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) करतव्य० । 'एच्च क्त्वा-तुम्-तव्य०' (३६१५७) इत्वम् । अनेन तव्यस्य एव्वउं करिएव्वउं ।
[ मरिएव्वउं] मृ-तव्यप्र० । अनेन तव्यस्य इएव्वउं । शेषं पूर्ववत् । मरिएव्वउं । [ देसुच्चाडणु सिहिकढणु..........]
अस्यार्थः- देशोच्चाटनं - देशपरित्यागः, शिखिक्वथनम्-अग्नितापः, घनकुट्टनं यल्लोके वर्त्तते तत्सर्वं मञ्जिष्ठया अतिरक्तया सोढव्यम् । एतावता अतिरक्तत्वं विरूपमित्यर्थः ।
[सहेव्वउं] 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै०' (२।३।९८) सह । तव्यप्र० । अनेन तव्यस्य एव्वउं सहेव्वउं ।
[ सोएवा पर वारिआ..........]
अस्यार्थः- पुष्पवतीभिः - ऋतुमतीभिः समं स्वपितव्यं परं वारितं, ताभिः समं पुनर्जागर्त(रित)व्यं को बिभर्ति ? यदि स वेदः प्रमाणमित्यर्थः ।
[सोएवा] स्वप्-तव्यप्र० । 'अन्त्यव्य०' (१।११) प्लुक् । 'स्वपावुच्च' (१।६४) स्व० → सो० । अनेन तव्यस्य एवा० सोएवा ।
[जग्गेवा] जागृ-तव्यप्र० । 'जाग्रेर्जग्गः' (४।८०) जागृ० → जग्ग० । अनेन तव्यस्य एवा० । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।११३) जग्गेवा ॥४३८॥
क्त्व इ-इउ-इवि-अवयः ॥ ८।४।४३९ ॥ अपभ्रंशे क्त्वाप्रत्ययस्य इ-इउ-इवि-अवि इत्येते चत्वार आदेशा भवन्ति । हिअडा ! जइ वेरिअ घणा तो किं अब्भि चडाहुं ? । अम्हहं बे हत्थडा जइ पुणु मारि मराहुं ॥१॥ गय-घड भज्जिउ जंति ॥२॥ [४।३९५-५] ।
१. लोओ जूरउ जूरइ वअणिज्ज होइ होउ तं णाम । एहि णिमज्जसु पासे पुष्फवइ ण एइ मे णिद्दा ॥ [गा० स० - ६।२९] लोकः खिद्यते खिद्यतु(तां) वचनीयं भवति भवतु तन्नाम । एहि निमज्ज पार्वे पुष्पवति ! नैति मे निद्रा | २. P. परिवारिआ = परिवारितं निषिद्धं समस्ति । ३. H. उद्वर्त्यते । ४. I. N. अम्हाहं । G. H. P. अम्हाहिं । अस्मद् । आम् । अम्हहं भ्यसाम्भ्याम् । 'स्वराणां०' आत्वं-इत्वं च । ।