________________
६१०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
संदेसें काई तुहारेण ? जं संगहो न मिलिज्जइ । सुइणंतरि पिएं पाणिएण पिअ ! पिआस किं छिज्जइ ? ||१|| दैक्खु अम्हारा कंतु ॥२॥ [४।३४५-१] । बहिणि ! महारा कंतु ॥३॥ [४।३५१-१] । [युष्मदादेरीयस्य डारः] युष्मदादि पञ्चमी ङसि । ईय षष्ठी ङस् । डार प्रथमा सि । [संदेसें काई तुहारेण ?.........]
अस्यार्थः- युष्मदीयेन संदेशेन किम् ? यद्-यस्मात् संगाय न मिल्यते । हे प्रिय ! स्वप्नान्तरे पीतेन पानीयेन किं पिपासा-तृषा छिद्यते ? । अपितु नेत्यर्थः ।
[तुहारेण] युष्मदीय । अनेन ईयस्य डार० → आर इति । 'युष्मदः सौ०' (४३६८) ('तइ-तु-ते.' (३।९९) ) युष्मद् → तुह० । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोप: । 'लोकात्' (१।१।३) तुहार० । तृतीया टा । 'टाआमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) र० → रे० तुहारेण ।
[ देक्खु अम्हारा कंतु ] पूर्वं लिखितम् [४।३४५-१] ।
[अम्हारा] अस्मदीय । 'अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना' (३।१०५) अस्मद् → अम्हि० ('मेमइ-मम०' (३।११३) अम्ह०) । अनेन ईयस्य डार० → आर० । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१।१३) अम्हार । द्वितीया अम् । 'स्यादौ दीर्घ-हुस्वौ' (४।३३०) र० → रा० । 'स्यम्-जस्०' (४।३४४) अम्लुक् अम्हारा ॥४३४||
अतो.त्तुलः ॥ ८।४।४३५ ॥ अपभ्रंशे इदम् - किम्-यत्-तद्-एतद्भ्यः परस्य अतोः प्रत्ययस्य डेत्तुल इत्यादेशो भवति । एत्तुलो । केत्तुलो । जेत्तुलो । तेत्तुलो । एत्तुलो । [अतोत्तुलः] अतु षष्ठी ङस् । डेत्तुल प्रथमा सि । [एत्तुलो] इयत् । अनेन अत्० → उत्तुल० → एत्तुल० । 'डित्यन्त्य०' (२।१।११४) इय्लुक् एत्तुलो - इयान् । [ केत्तुलो ] कियत् । अनेन अत्० → उत्तुल० → एत्तुल० । 'डित्यन्त्य०' (२।१।११४) इय्लुक् केत्तुलो-कियान् ।
[जेत्तुलो ] यावत् । 'आदेर्यो जः' (१।२४५) यावत्० → जावत् । अनेन अत्० → डेत्तुल० → एत्तुल० । 'डित्यन्त्य०' (२।१२११४) आव्लुक् जेत्तुलो - यावान् ।
[तेत्तुलो ] तावत् । अनेन अत्० → डेतुल० → एत्तुल० । 'डित्यन्त्य०' (२।१।११४) आव्लुक् तेत्तुलो - तावान् ।
[ एत्तुलो ] एतावत् । अनेन अत्० → डेत्तुल० → एत्तुल० । 'डित्यन्त्य०' (२।१।११४) एताव्लुक् एत्तुलो-एतावान् ॥४३५।। १. अविअण्हपेक्खणिज्जेण तक्खणं मामि ! तेण दिद्वेण । सिविणअपीएण व पाणिएण तण्ह च्चिअ ण फिट्टा ॥
[गा० स० - १२९३] अवितृष्णप्रेक्षणीयेन तत्क्षणं मामि ! तेन दृष्टेन । स्वप्नपीतेनेव पानीयेन तृष्णैव न भ्रष्टा ॥ २. G. संदेसएं । ३. G. दिक्खु । P. देक्खि । ४. G. अस्मदीय । 'पक्ष्म-श्म०' (२।७४) स्म० → म्ह० ।