________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
६०९
अस्यार्थः- हे पथिक ! गौरी दृष्टा, मयेति गम्यते । किंकुर्वती दृष्टा ? मार्ग पश्यती । पुनः किंकुर्वती ? अश्रुउत्श्वा(उच्छ्वा)साभ्यां कञ्चुकं-तिमितोद्वानं आर्द्र-शुष्कं कुर्वतीत्यर्थः ।
[गोरडी ] गोरी । 'अ-डड-डुल्लाः स्वार्थिक०' (४।४२९) डडप्र० → अड इति । 'डित्यन्त्य०' (२।१।११४) ईलुक् । अनेन डीप्र० → ई० । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१।३) गोरडी । प्रथमा सि । 'स्यम्-जस्-शसां लुक्' (४।३४४) सिलुक् गोरडी ।
[ एक्क कुडुल्ली पंचहिं रुद्धी ] पूर्वं लिखितम् । [४।४२२-१४] ।
[कुडुली ] कुटी । 'टो डः' (१२१९५) टी० → डी० । 'अ-डड-डुल्ला:०' (४।४२९) डुल्लप्र० → उल्ल० । 'डित्यन्त्य०' (२२१२११४) ईलुक् । अनेन डीप्र० → ई० । 'डित्यन्त्य०' (२२१२११४) अलुक् कुडुल्ली ॥४३१॥
आन्तान्ताड्डाः ॥ ८।४।४३२ ॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्त-प्रत्ययान्तात् डाप्रत्ययो भवति ॥ ड्यपवादः ॥ पिउ आइउ सुअ वत्तडी झुणि कन्नडइ पइट्ठ । तहो विरहहो नासंतअहो धूलडिआ-वि न दिट्ठ ॥१॥
[आन्तान्ताड्डाः ] अप्रत्ययोऽन्ते यस्य स आन्तः । डडादिः आन्तप्रत्ययोऽन्ते यस्य तद् आन्तान्तम्, तस्मात् = आन्तान्तात् । डा प्रथमा सि । [पिउ आइउ सुअ वत्तडी......]
अस्यार्थ:- प्रिय आगतः [इति] वार्ता श्रुता । ध्वनिः कर्णे प्रविष्टः । तस्य विरहस्य नश्यतः सतः धूलिरपि न दृष्टेत्यर्थः ।
[धूलडिआ] धूलि । 'अ-डड-डुल्ला:०' (४।४२९) डडप्र० → अड इति । 'डित्यन्त्य०' (२।१।११४) इलुक् । 'लोकात्' (११३) धूलड । अनेन डाप्र० → आ इति । 'अस्येदे' (४।४३३) ड० → डि० । प्रथमा सि । 'स्यम्-जस्शसां लुक्' (४।३४४) सिलुक् धूलडिआ ॥४३२॥
अस्येदे ॥ ८।४।४३३ ॥ अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्य आकारे प्रत्यये परे इकारो भवति । धूलडिआ वि न दिट्ठ ॥१॥ [४।४३२-१] । स्त्रियामित्येव- झुणि कन्नडइ पइट्ठ ॥२॥ [४।४३२-१] । [अस्येदे ] अ षष्ठी ङस् । इत् प्रथमा सि । आ सप्तमी ङि। [धूलडिआ वि न दिट्ठ] पूर्वं लिखितमत्र साधितं च ॥ [झुणि कन्नडइ पइट्ठ] पूर्वं लिखितम् । अत्र कर्णशब्दस्य पुल्लिङ्गत्वात् कण्णड इति न भवति ॥४३३॥
युष्मदादेरीयस्य डारः ॥ ८।४।४३४ ॥ अपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ।