________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
६०१
[शीघ्राऽऽदीनां वहिल्लाऽऽदयः] शीघ्राऽऽदि षष्ठी आम् । वहिल्लाऽऽदि प्रथमा जस् । [एक्कु कइअ ह-वि न आवहि..............]
अस्यार्थः- एकं कदापि नागच्छसि । अन्यत् शीघ्रं यासि । हे मित्र ! मया त्वं प्रमाणितो ज्ञातः, त्वया यादृशः खलो नहि इत्यर्थः ।
[वहिल्लउ] शीघ्र । अनेन वहिल्ल इति । 'अ-डड०' (४।४२९) अप्र० । प्रथमा सि । 'स्यमोर०' (४।३३१) अ० → उ० वहिलउ ।
[जिवँ सु-पुरिस तिवँ घंघलई..........]
अस्यार्थः- यथा सत्पुरुषा बहवः सन्ति तथा झकटकाः । यथा नद्यस्तथा वलनानि । यथा गिरयस्तथा कोटराणि । तर्हि हे हृदय ! कथं खिद्यसे इत्यर्थः ।
[घंघलई ] झकटक । अनेन घंघल इति । प्रथमा जस् । 'जस्-शस-इ-इं-णयः सप्राग्दीर्घाः' (३।२६) जस्० → इं० घंघलई।
[जे छड्डेविणु रयणनिहि. ....]
अस्यार्थः- ये रत्ननिधि मुक्त्वा आत्मानं तटे क्षिपन्ति, पर-केवलं तेषां शङ्खानामस्पृश्यसंसर्ग एव । ये फूत्क्रियमाणा भ्रमन्तीत्यर्थः ।
[विट्टालु] अस्पृश्यसंसर्ग । अनेन विट्टाल इति । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) ल० → लु० विद्यालु । [दिवेहिं विढत्तउं खाहि. ......]
अस्यार्थः- हे वढ ! हे मूर्ख ! दैवाणितं खाद । मा संचिनु एकमपि द्रम्मम् । किमपि तद्भयं पतति येन जन्म समाप्यते इत्यर्थः ।
[द्रवक्कउ] भय । अनेन द्रवक्क इति । 'अ-डड०' (४|४२९) अप्र० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) अ० → उ० द्रवक्कउ ।
[फोडेंति जे हियडर्ड अप्पणउं] पूर्वं लिखितम् । [४।३५०-२] । [अप्पणउं] आत्मीय । अनेन अप्पण० । प्रथमा सि । 'स्यमोरस्यो०' (४।३३१) अप्पणउं । [एक्कमेक्कउं जइ वि जोएदि.........]
अस्यार्थः- हरिः सुष्ठ-अत्यर्थः सर्वादरेण एकैकं वस्तु यद्यपि पश्यति ततोऽपि दृष्टिर्यत्र क्वापि राधिका कः शक्नोति संवरीतुं । दग्धनयने स्नेहेन पर्यस्ते व्याकुलिते इत्यर्थः ।
[ देहि] दृष्टि । अनेन "दृष्टि" स्थाने देहि । [विहवे कस्सु थिरत्तणउं..........]
अस्यार्थः- विभवे कस्य स्थिरत्वम् । यौवने कस्य गर्वः । स लेखः प्रस्थाप्यते यो लगति गाढम् । वियोगिनीवचनमिदमित्यर्थः ।
[निच्चट्ट] गाढ । अनेन गाढस्य निच्चट्ट० ।