________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५९३
[प्राइम्व] प्रायस् । अनेन "प्रायस्" स्थाने प्राइम्व० । [एसी पिउ रूसेसु हउं..............]
अस्यार्थः- प्रिय एष्यति-समागमिष्यति । अहं रुषिष्यामि । रुष्टां मामनुनयति-मनावइ । प्रायो दर्यित एतान् मनोरथान् दुःकरान् करोति । इष्टकालेऽनागमनादित्यर्थः ।। [पग्गिम्व] प्रायस् । अनेन "प्रायस्"स्थाने पग्गिम्ब० ॥४१४॥
वाऽन्यथोऽनुः ॥ ८।४।४१५ ॥ अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति ॥ विरहाणल-जाल-करालियउ पहिउ को-वि बुड्डु(डिवि ठिअउ । अनु सिसिर-कालि सीअल-जलहु धूमु कहंतिहु उट्ठिअउं ॥१॥ पक्षे- अन्नह ॥ [वाऽन्यथोऽनुः] वा प्रथमा सि । अन्यथा षष्ठी ङस् । अनु प्रथमा सि । [विरहाणल-जाल-करालियउ.............]
अस्यार्थः- कोऽपि कविर्जले धूमं दृष्ट्वा आह-कोऽपि पथिको विरहानलज्वालाकरालितः पीडितो बुडित्वा स्थितोऽस्ति । अन्यथा शिशिरकाले शीतलजलाद्भूम कुत उत्थित इत्यर्थः ।
[अनु अन्नह] अन्यथा । अनेन वा "अन्यथा"स्थाने अनु । पक्षे- अन्यथा । प्रथमा सि । 'अधो म-न-याम्' (२।७८) य्लुक् । 'अनादौ०' (२।८९) द्वित्वम् । 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । 'स्वराणां स्वरा:०' (४।३२९) हा० → ह० अन्नह ॥४१५।।
कुतसः कउ-कहतिहु ॥ ८।४।४१६ ॥ अपभ्रंशे कुतःशब्दस्य कउ-कहंतिहु इत्यादेशौ भवतः ॥ महु कंतहो गुट्ठट्ठिअहो कउ झुपडा बलंति । अह रिउ-रुहिरें उल्हवइ अह अप्पणे न भंति ॥१॥ धूमु कहंतिहु उट्ठिअउ ॥२॥ [कुतसः कउ-कहंतिहु] कुतस् षष्ठी ङस् । कउ-कहंतिहु प्रथमा सि । [महु कंतहो गुट्ठट्ठिअहो.........]
अस्यार्थ:- गोष्ठस्थितस्य मम कान्तस्य कुतः कुटीरकाणि ज्वलन्ति ? । अथ रिपुरुधिरेण विध्यापयति । अथ आत्मीयेन। न भ्रान्तिरित्यर्थः ।
[कउ] कुतस् । अनेन "कुतस्"स्थाने कउ० । [धूमु कहंतिहु उठ्ठिअउ] पूर्वं लिखितम् । [४|४१५-१] ।
[कहंतिहु] कुतस् । अनेन "कुतस्"स्थाने कहंतिहु० ॥४१६।। १. H. दयिता । २.G. उट्ठीअउ । H. J. उट्ठिअओ। ३. GP. अप्पणएँ । आत्मीय । 'शीघ्रादीनां०' अप्पण । अ । टा।