________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५८९
अस्यार्थः- पर-केवलम् । तिलानां तिलत्वं तावत् यावत् स्नेहा न गलन्ति, स्नेहे प्रनष्टे ते एव तिला भ्रष्ट्वा खला भवन्तीत्यर्थः ।
[ताउं] तावत् । अनेन "वत्"स्थाने उं ताउं । [जाउं] यावत् । 'आदेर्यो जः' (११२४५) यावत् → जावत् । अनेन "वत्"स्थाने उं जाउं । [जामहिं विसमी कज्ज-गई................]
अस्यार्थः- यावज्जीवानां मध्ये विषमा कार्यगतिरायाति तावदास्तामितरो जनः, स्वजनोऽप्यन्तरं ददाति - पृष्ठि ददातीत्यर्थः ।
[जामहिं] यावत् । 'आदेर्यो जः' (१२२४५) यावत्० → जावत् । अनेन "वत्"स्थाने महिं । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः जामहि - जावहिं ।
[तामहिं] तावत् । अनेन "वत्"स्थाने महिं । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः तामहिं - तावहिं ॥४०६॥
वा यत्-तदोऽतोर्डेवडः ॥ ८।४।४०७ ॥ अपभ्रंशे यद्-तद्- इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ जेवडु अंतरु रावण-रामहं तेवडु अंतरु पट्टण-गामहं ॥ पक्षे- जेत्तुलो । तेत्तुलो ॥ [वा यत्तदोऽतोर्डेवडः ] वा प्रथमा सि । यत्तद् षष्ठी ओस्(ङस्) । अत् षष्ठी ओस् । डेवड प्रथमा सि । [जेवडु अंतरु रावण-रामह..........] द्विपदम् । यावदन्तरं रावणरामयोः तावदन्तरं पत्तनग्रामयोरित्यर्थः ।
[जेवडु ] यावत् । अनेन वा "वत्"स्थाने डेवड० → एवड० इति । 'डित्यन्त्य०' (२।१२११४) आलुक् । 'लोकात्' (१।२३) येवड० । 'आर्यों जः' (११२४५) येवड. → जेवड० । प्रथमा सि । 'स्यमोरस्योत्' (४३३१) जेवड० → जेवडु० ।
[तेवडु ] तावत् । अनेन वा "वत्"स्थाने डेवड० → एवड० इति । 'डित्यन्त्य०' (२।१।११४) आलुक् । 'लोकात्' (१।१।३) तेवड० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) तेवड० → तेवडु० । पक्षे
[जेत्तुलो] यावत् । ‘आदेर्यो ज:' (१।२४५) यावत् → जावत् । 'अतोर्डेत्तुलः' (४।४३५) अत्० → उत्तुल० → एत्तुल इति । 'डित्यन्त्य०' (२।१।११४) आव्लुक् जेत्तुलो ।
[तेत्तुलो] तावत् । 'अतोडैत्तुलः' (४।४३५) अत्० → डेत्तुल० → एत्तुल इति । 'डित्यन्त्य०' (२।१।११४) आव्लुक् तेत्तुलो ॥४०७॥
वेदं-किमोर्याऽऽदेः ॥ ८४४०८॥ अपभ्रंशे इदम्-किम् इत्येतयोरत्वन्तयोरियत्-कियतोर्यकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ एवडु अंतरु । केवडु अंतरु । पक्षे-एत्तुलो । केत्तुलो ॥ . [ वेदं-किमोर्याऽऽदेः] वा प्रथमा सि । इदम्-किम् षष्ठी ओस् । याऽऽदि षष्ठी ङस् ।
[एवडु अंतरु] इयदन्तरम् । अनेन "यत्"स्थाने डेवड० → एवड० इति । 'डित्यन्त्य०' (२।१२११४) इलुक् । 'लोकात्' (१।११३) एवड० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) एवड० → एवडु० ।