________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[चूडुल्लउ चुण्णीहोइसइ मुद्धि !.....]
अस्यार्थ:- हे मुग्धे ! कपोले निहित:-स्थापितश्चटकञ्चूर्णीभविष्यति । किवि० चूटकः ? श्वासानलज्वालादग्धः । पुनः किंवि० ? बाष्पसलिलसंसिक्त इत्यर्थः ।
_ [झलक्किअउ] 'दहं भस्मीकरणे' (५५२) दह् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) दह० । अनेन दह० → झलक्क आदेशः । क्तप्र० । 'स्वराणां स्वराः' (४।२३८) क० → कि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । स्वार्थे कप्र० । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'स्यमोरस्योत्' (४।३३१) अ० → उ० झलक्किअउ ।
[अब्भडवंचिउ बे पयई................]
अस्यार्थः- प्रेमशब्देन प्रिया वाच्या अभेदोपचारात् । यथा प्रेमवतीत्युच्यते तथा प्रेमापीत्युच्यते । प्रिया प्रियमिति शेषः । प्रियमब्भडवंचिउ इति । अनुव्रज्य मुक्त्वालाप्य यावद् द्वौ पादौ निवर्तते तावत् सर्वाशनरिपुसम्भवस्य चन्द्रस्य करा:किरणा: परिवृत्ता:-प्रसृता इत्यर्थः ।
[सव्वासण-रिउ-संभवहो] सर्वमश्नातीति । 'नन्द्यादि०' (५।१५२) अनप्र० । सर्वाशनोऽग्निः, तस्य रिपुर्जलं, तत्सम्भव: चन्द्रः ।
[अब्भडवंचिउ] अनुव्रजेरनेन अब्भड इति । वञ्च् । क्तप्र० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१२२३) वञ्चत । 'स्वराणां स्वराः' (४।२३८) वञ्चित अब्भडवंचिउ ।
[हिअइ खुडुक्कड़ गोरडी..........] अस्यार्थ:- गौरी-स्त्री हृदये शल्यायते । मेघो गगने गर्जति । वर्षारात्रे प्रवासिकानां विषमं सङ्कटमेतदित्यर्थः ।
[खंडक्कड़ ] शल्याय । अनेन ख(खु)डुक्क इति । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० खुडुक्कड़ ।
[घुडुक्कड़ ] गर्ज । अनेन गर्जेधुंडुक्क इति । वर्त्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० घुडुक्कड़ । [अम्मि ! पयोहर वज्जमा........... ]
अस्यार्थ:- हे अम्ब ! मम पयोधरौ वज्रमयौ स्तः । यौ नित्यमेव तस्य मम कान्तस्य सम्मुखौ तिष्ठतः । तस्येति कस्य ? त(य)स्याऽग्रे गजघटा: समराङ्गणे भक्त्वा यान्तीत्यर्थः ।
[थन्ति ] अनेन तिष्ठतः स्थाने थन्ति । [पुत्तें जाएं कवणु गुणु.............]
अस्यार्थ:- जातेन पुत्रेण को गुणः ? मृतेन पुत्रेण कोऽप(व)गुणः ? येन पुत्रेण सतेति गम्यते । या पैतृकी भूमिरपरेणाक्रम्यते इत्यर्थः ।
[चम्पिज्जइ] 'क्रमू पादविक्षेपे' (३८५) क्रम्, आप० । अनेन आक्रमेश्चम्प । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । क्यप्र० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्यस्य इज्जः चम्पिज्जइ ।
१. ०. खुडक्क अक० (दे०) (१) शल्य की तरह चुभना. (२) नीचे उतरना. (३) स्खलित होना. (४) क्रोध से मौन रहना. पा० म० - खुडक्क देखो खुडुक्क । ।