________________
अष्टमाध्यायस्य प्रथमः पादः ॥
आत्कश्मीरे ॥ ८॥११०० ॥ कश्मीरशब्दे ईत आद् भवति ॥ कम्हारा || [आत्कश्मीरे ] आत् प्रथमा सि । कश्मीर सप्तमी ङि ।
[कम्हारा] कश्मीर । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) र० → रा०। अनेन श्मी० → श्मा० । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) श्मा० → म्हा० कम्हारा ॥१००।
पानीयाऽऽदिष्वित् ८।१।१०१॥ पानीयाऽऽदिषु शब्देषु ईत इद् भवति ॥
पाणिअं । अलिअं। जिअइ । जिअउ । विलिअं । करिसो । सिरिसो । दुइअं। तइअं। गहिरं । उवणिअं । आणिअं। 'पलिविओ। ओसिअन्तं । पसिअ । गहिअं। वम्मिओ । तयाणि ॥
पानीय । अलीक । जीवति । जीवतु । व्रीडित । करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीत । प्रदीपित । अवसीदत् । प्रसीद । गृहीत । वल्मीक । तदानीम् इति पानीयाऽऽदयः ॥
बहुलाधिकारादेषु क्वचिन्नित्यं क्वचिद्विकल्पः - तेन पाणीअं । अलीअं । जीअइ । करीसो । उवणीओ इत्यादि सिद्धम्॥
[पानीयाऽऽदिष्वित् ] पानीयाऽऽदि सप्तमी सुप् । इत् प्रथमा सि ।
[पाणि] पानीय । अनेन नी० → नि० । 'नो णः' (१।२२८) नि० → णि० । 'क-ग-च-ज०' (१।१७७) य्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः पाणिअं ।
[अलिअं] अलीक । अनेन ली० → लि० । 'क-ग-च-ज०' (१।१७७) इति क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अलिअं ।
[जिअइ ] जीवति । अनेन जी० → जि० । 'सर्वत्र०' (२२७९) व्लुक् । 'क-ग-च-ज०' (१।१७७) इति त्लुक् जिअइ ।
[जिअउ] 'जीवतु । अनेन जी० → जि० । 'सर्वत्र०' (२७९) व्लुक् । ('क-ग०' (१।१७७) व्लुक्) । 'क-गच-ज०' (१।१७७) इति त्लुक् जिअउ ।
[विलिअं] वीडित । 'सर्वत्र०' (२७९) लुक् । अनेन वी० → वि० । 'डो लः' (१२२०२) डि० → लि० । 'कग-च-ज०' (११७७) इति त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः विलिअं।
[करिसो] करीष । अनेन री० → रि० । 'श-षोः सः' (१।२६०) ष० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० करिसो।।
[सिरिसो] शिरीष । अनेन री० → रि० । 'श-षोः सः' (१।२६०) शि-ष० → सि-स० । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० सिरिसो।
१. सर्वमुद्रितेषु पलिविअं । २. L. जीव्+अ+तिव् । ईकारस्य इकारे 'क-ग-च-ज.' (१।१७७) वकारलोपे 'त्यादी०' (३१३९) तिव्० → इ० जिअइ । ३. L. जीव्+अ+तुव् । ईकारस्य इकारे 'क-ग-च-ज०' (१।१७७) वकारलोपे 'दु-सु-मु०' (३।१७३) तुव० → दु० । 'क-ग-च-ज०' (१११७७) दकारलोपे जिअउ ।
ईकारस्य इकारे ‘क-ग-च-ज०' (१९७) वकारलोपे ‘त्यादी.' (३९३९)