________________
अष्टमाध्यायस्य प्रथमः पादः ॥
६७
क्वचिद् ओत्वमपि-[दोवयणं] द्विवचन । 'सर्वत्र०' (२२७९) व्लुक् । 'क-ग-च-ज०' (२१७७) च्लुक् । प्रथमा सि । 'अवर्णो०' (१।१८०) अ० → य० । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । अनेन ओ० । 'क्लीबे०' (३६२५) सि० →म्० । 'मोऽनुस्वारः' (१२२३) अनुस्वारः दोवयणं ।
[णुमज्जइ] निपूर्व० षद् । 'नेः सदो मज्जः' (४।१२३) षद् → मज्ज आदेशः । वर्त्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'वाऽऽदौ' (११२२९) नस्य णः । 'त्यादीनामा०' (३।१३९) ति० → इ० । अनेन उत्वं णुमज्जइ ।
[णुमण्णो ] निमग्न । उत्वम् । 'क-ग-ट-ड०' (२१७७) इति ग्लुक् । 'वाऽऽदौ' (१२२९) नु० →णु० । 'नो णः' (१२२२८) न० →ण । 'अनादौ०' (२१८९) णस्य द्वित्वम् । प्रथमा सि । 'अतः सेोः' (३२) सि० → डो० → ओ० णुमण्णो ।
[निवडइ] निपतति । 'पो वः' (१२२३१) प० →व० । 'सद-पतोर्डः' (४।२१९) त० → ड० । वर्त० तिव् । 'त्यादीनामा०' (३।१३९) ति० → इ० निवडइ ॥१४॥
प्रवासीक्षौ ॥ ८।१।९५ ॥ अनयोरादेरित उत्वं भवति ॥ पावासुओ । उच्छू ॥ [प्रवासीक्षौ] प्रवासी च इक्षुश्च = प्रवासीास्तस्मिन् = प्रवासीक्षौ । सप्तमी ङि ।
[पावासुओ] प्रवासिन् । 'अन्त्यव्यः' (१।११) ग्लुक् । 'सर्वत्र०' (२१७९) लुक् । 'अत: समृद्ध्यादौ वा' (१।४४) प० → पा० । अनेन सि० → सु० । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । 'क-ग-च०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् पावासुओ।
[उच्] इक्षु । अनेन इ० → उ० । 'छोऽक्ष्यादौ' (२०१७) क्षस्य छः । प्रथमा सि । 'अनादौ०' (२२८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'अक्लीबे सौ' (३।१९) दीर्घः - छु० → छू० । 'अन्त्यव्य०' (१।११) स्लुक् उच्छू ॥९५॥
युधिष्ठिरे वा ॥ ८।१।९६ ॥ युधिष्ठिरशब्दे आदेरित उत्वं वा भवति || जहुट्ठिलो जहिट्ठिलो ॥ [ युधिष्ठिरे वा ] युधिष्ठिर सप्तमी ङि । वा प्रथमा सि ।
[जहुट्ठिलो जहिट्ठिलो] युधिष्ठिर । 'आदेर्यो जः' (१२२४५) यु० → जु० । 'ख-घ-थ-ध-भाम्' (१२१८७) धि० → हि० । अनेन इ० → उ० -हि० → हु० । 'क-ग-ट-ड०' (२७७) इति ष्लुक् । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'हरिद्रादो०' (१।२५४) र० → ल० । 'उतो मुकुलादिष्वत्' (१।१०७) जु० → ज०। प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० जट्ठिलो । द्वितीये उत्वं विना तथैव - जहिडिलो॥१६॥
ओच्च द्विधाकृगः ॥ ८॥१।९७ ॥ द्विधाशब्दे कृग्धातोः प्रयोगे इत ओत्वं चकारादुत्वं च भवति ।।
दोहा-किज्जइ दुहा-किज्जइ । दोहा-इअं दुहा-इअं॥ कृग इति किम् ? दिहा-गयं ॥ क्वचित् केवलस्याऽपि-दुहा वि सो सुर-वहू-सत्थो । १. H. I. K. L. M. णुमन्नो ।