________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
'[जेण्हू जिण्हू ] जिष्णु (२) । अनेन वा जि० → जे० । 'सूक्ष्म-श्न-ष्ण०' (२।७५) ष्णु० → ण्हु० । प्रथमा सि। 'अक्लीबे सौ' (३।१९) दीर्घः -ण्हु० → हू० । 'अन्त्यव्य०' (१२११) स्लुक् जेण्हू जिण्हू । [ पेटें पिटुं] 'पृष्ठ (२) । 'पृष्ठे वाऽनुत्तरपदे' (१।१२९) पृ० → पि० । अनेन वा पि० → पे० । 'ष्टस्याऽनुष्ट्रे०'
ष्ठस्य ठः । 'अनादौ०' (२२८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वठस्य टः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः पेढे पिटुं।
[बेल्लं बिल्लं] बिल्व (२) । अनेन वा बि० → बे० । 'सर्वत्र०' (२१७९) व्लुक् । 'अनादौ०' (२८९) लस्य द्वित्वं-ल० → ल० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः बेल्लं बिल्लं । [चिन्ता] चिन्ता ॥८५॥
किंशुके वा ॥ ८।१८६ ॥ किंशुकशब्दे आदेरित एकारो वा भवति ॥ केसुअं किंसुअं ॥ [किंशुके वा] किंशुक सप्तमी ङि । वा प्रथमा सि ।
[केसुअं किंसुअं] किंशुक (२) । 'मांसाऽऽदेर्वा' (१।२९) वाऽनुस्वारलुक् । अनेन वा एत्वं-कि० → के० । 'शषोः सः' (१।२६०) शु० → सु० । 'क-ग-च-ज०' (१११७७) इति क्लु क । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः केसुअं किंसुअं ॥८६॥
मिरायाम् ॥ ८॥१८७॥ मिराशब्दे इत एकारो भवति ॥ मेरा ॥ [मिरायाम् ] मिरा सप्तमी ङि । [ मेरा ] मिरा । प्रथमा सि । अनेन मि० → मे० । 'अन्त्यव्य०' (१।११) स्लुक् मेरा ॥८७||
__ 'पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत् ॥ ८१४८ ॥ एषु आदेरितोऽकारो भवति ॥ पहो । पुहई । पुढवी । पडंसुआ । मूसओ । हलद्दी । हलद्दा । बहेडओ ॥ "पंथं किर देसित्तेति तु पथिशब्दसमानार्थस्य पन्थशब्दस्य भविष्यति ।। हरिद्रायां विकल्प इत्यन्ये । हलिद्दी हलिद्दा ॥
[पथिपृथिवीप्रतिश्रुन्मूषिकहरिद्राबिभीतकेषु ] पन्थाश्च पृथिवी च प्रतिश्रुच्च मूषिकश्च हरिद्रा च बिभीतकश्च = पथिपृथिवीप्रतिश्रुन्मूषिकहरिद्राबिभीतकास्तेषु = पथिपृथिवीप्रतिश्रुन्मूषिकहरिद्राबिभीतकेषु ।
[अत्] अत् प्रथमा सि । १. A. जेण्हू जिण्हू उदाहरणम् । २. J. L. पिष्ट । ३. A. सूत्रे पथि-मथि-पृथिवी... । सूत्रोदाहरणे पहो-महो-पुहई... । विग्रहे पन्थाश्च मन्थाश्च पृथिवी च... | ४. पंथं किर देसित्ता साहूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ॥ [आव० नि० गाथा-१४६] पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानाम् । सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्य ।।