________________
अष्टमाध्यायस्य प्रथमः पादः ॥
अस्यार्थः - 'हे सुभग ! त्वया स्वहस्तदत्तं निर्माल्यं सा स्त्री अद्यापि उद्वहति । किंविशिष्टं निर्माल्यम् ? गन्धरहितमपि। उद्वसितनगरगृहदेवतेव इत्यर्थः ।
निर्माल्यमेव = निर्माल्यकम् । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । अन्यत् पूर्ववत् । ओमालयं ।
[परिट्ठा पइट्ठा ] प्रति-स्था (२) । 'स्थष्ठा-थक्क०' (४।१६) स्था० → ठा० । 'समासे वा' (२।९७) द्वित्वम् । अनेन वा प्रति० → परि० । पक्षे- 'सर्वत्र ल०' (२।७९) लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् परिव पइट्ठा ।
[परिट्ठिअं पइट्ठिअं] परिट्ठा पइट्ठा पूर्ववत् । क्तप्र० → त । 'स्वरादनतो वा' (४।२४०) अत् । 'लुक्' (१।१०) आकारलुक् । 'क्ते' (३।१५६) इ० । यद्वा 'स्वराणां स्वराः' (४।२३८) आ० → इ० । 'क-ग-च-ज०' (१।१७७) त्लुक् परिट्ठिअं पइट्ठिअं ॥३८॥
आदेः ॥ ८।१।३९ ॥ आदेरित्यधिकारः ‘क-ग-च-ज०' (१।१७७) इत्यादिसूत्रात् प्रागविशेषे वेदितव्यः ॥ [आदेः] आदि षष्ठी ङस् ॥३९॥
त्यदाद्यव्ययात् तस्वरस्य लुक् ॥ ८।१।४० ॥ त्यदादेरव्ययाच्च परस्य तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग भवति ॥ अम्हेत्थ अम्हे एत्थ । जइमा जइ इमा । जइहं जइ अहं ॥ [त्यदाद्यव्ययात्] त्यदादयश्च अव्ययं च = त्यदाद्यव्ययम्, तस्मात् = त्यदाद्यव्ययात् । [तत्स्वरस्य लुक्] 'तयोः स्वरस्तत्स्वरस्तस्य = तत्स्वरस्य । लुक् प्रथमा सि ।
[अम्हेत्थ अम्हे एत्थ ] अस्मद् (२) । प्रथमा जस् । 'अम्ह-अम्हे-अम्हो-मो-वयं-भे जसा' (३।१०६) अस्मद् → अम्हे० । एतद् । सप्तमी ङि । 'अन्त्य०' (१।११) द्लुक् । 'डेस्सि -म्मि-स्थाः' (३।५९) ङि० → स्थ० । 'त्थे च तस्य लुक्' (३८३) उभयत्र तलोपः । अनेन वा एकारलुक् अम्हेत्थ अम्हे एत्थ । यदि वाऽत्र 'त्रपो हि-ह-त्थाः' (२।१६१) १० → त्थ० । 'एच्छय्यादौ' (१५७) अ० → ए० ।
[जइमा जइ इमा] यदि (२) । 'आदेर्यो जः' (२२४५) य० → ज० । 'क-ग-च-ज०' (१२१७७) द्लुक् जइ । इदम् (२) । प्रथमा सि । 'इदम इम:' (३।७२) सिना सह इदम्० → इम० । 'आत्' (२।४।१८) आप्प्र० → आ० । अनेन वा इलुक् जइमा जइ इमा।
[जइहं जइ अहं] जइ प्राग्वत् । अस्मद् (२) । प्रथमा सि । 'अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना' (३।१०५) सिना सह अस्मद् → अहं । अनेन वा अलुक् जइहं जड़ अहं ॥४०॥
पदादपेर्वा ॥ ८॥१॥४१॥ पदात् परस्य अपेरव्ययस्य आदेर्लुग्वा भवति ॥ तं पि तमवि । किं पि किमवि । केण वि केणावि । कहं पि कहमवि ॥ [पदादपेर्वा ] पद पञ्चमी ङसि । अपि षष्ठी ङस् । वा प्रथमा सि ।
१. B. ओ सुहय ! | K. हे भगवन् ! । २. D. ओमालमेव । ३. D. तस्य स्वरं = तत्स्वरम् ।