________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
'अनादौ०' (२१८९) वस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सव्वओ ।
[पुरओ] पुरतः । 'क-ग-च-ज०' (१११७७) त्लुक् । अनेन विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् पुरओ।
[अग्गओ] अग्रतः । 'सर्वत्र ल०' (२।७९) लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१२११४) अलुक् अग्गओ।
[ मग्गओ] मार्गतः । 'हूस्वः संयोगे' (१।८४) मा० → म० । 'सर्वत्र ल०' (२७९) लुक् । 'अनादौ०' (२२८९) गस्य द्वित्वम् । 'क-ग-च-ज०' (१११७७) त्लुक् । अनेन विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् मग्गओ।
[भवओ] भवत: - षष्ठ्यन्तरूपसिद्धिः । अनेन विसर्गस्य डो० → ओ० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'डित्यन्त्य०' (२।१२११४) अलुक् भवओ।
[भवन्तो] भवन्तः - प्रथमा जस् । अनेन विसर्गस्य डो० → ओ० भवन्तो । [सन्तो] सन्तः - प्रथमा जस् । अनेन विसर्गस्य डो० → ओ० सन्तो।
[कुदो] कुतस् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'तो दोऽनादौ शौरसेन्यामयुक्तस्य' (४।२६०) तस्य दः। अनेन विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् कुदो ॥३७॥
निष्प्रती ओत्परी माल्य-स्थोर्वा ॥८१॥३८ ॥ निर-प्रति इत्येतौ माल्यशब्दे स्थाधातौ च परे यथासंख्यं ओत-परि इत्येवंरूपौ वा भवतः ॥ अभेदनिर्देशः सर्वादेशार्थः ॥ ओमालं निम्मल्लं । ओमालयं वहइ । परिट्ठा पइट्ठा । परिट्ठिअं पइट्ठिअं ॥ [निष्प्रती ओत्परी] निश्च प्रतिश्च = निष्प्रती । प्रथमा औ। ओच्च परिश्च = ओत्परी । प्रथमा औ ।
[माल्यस्थोर्वा ] माल्यश्च स्थाश्च = माल्यस्थौ, तयोः = माल्यस्थोः । 'लुगाऽऽतो०' (२।१२१०७) आलुक् । वा प्रथमा सि ।
[ओमालं निम्मल्लं] निर्-माल्य । निर्गतं माल्यं यस्मात् । प्रथमा सि । 'क्लीबे स्वरा०' (३।२५) सि० → म्० । 'अधो म-न-याम्' (२।७८) यलुक् । अनेन वा निर्० → ओ० । 'मोऽनु०' (१९२३) अनुस्वारः । पक्षे- 'हुस्वः संयोगे' (१२८४) मा० → म० । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२१८९) द्वित्वम् । 'अधो म०' (२७८) य्लुक् । 'सेवादौ वा' (२९९) द्वित्वं निम्मलं ।
'सा प(त)इ सहत्थदिन्नं अज्ज वि उवहइ गंधरहियं पि ।
उव्वसियनयरघरदेवय इव ओमालयं वहइ ।। १. K. येषाम् । २. [व० ल० - ओलुग्गाविया वज्जा - ४३२ । गा० को० - १।३० । गा० स० - २२९४] ३. पाठां० - गा० को० - रे सुहय । व० ल० - ओ सुहय । ४. गा० स० - देवदे व्व० । ५. गा० को० - गा० स० - ओमालिअं। सा त्वया स्वहस्तदत्तामद्यापि रे सुभग गन्धरहितामपि । उद्वसितनगरगृहदेवतेवावमालिकां वहति ॥ १. पाठां - व० ल० - अहो सुभग ।