SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३५१ नवाऽनिदमेतदो हिं ॥ ८॥३६० ॥ इदम् - एतद्वर्जितस्य(तात्) सर्वादेरतः परस्य डेहिमादेशो वा भवति ॥ सव्वहिं । अन्नहिं । कहिं । जहिं । तहिं । बहुलाधिकारात् कि-यत्तद्भ्यः स्त्रियामपि काहिं । जाहिं । ताहि । बाहुलकादेव 'कि-यत्तदोस्यमामि' (३।३३) इति ङी स्ति । पक्षे- सव्वस्सि । सव्वम्मि । सव्वत्थ इत्यादि । स्त्रियां तु पक्षे - काए कीए । जाए जीए । ताए तीए ॥ इदमेतद्वर्जनं किम् ? इमस्सि । एअस्सि ॥ [नवाऽनिदमेतदो हिं] नवा प्रथमा सि । अनिदमेतद् पञ्चमी ङसि । हिं प्रथमा सि । [ सव्वहिं] सर्व । सप्तमी ङि । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अनादौ०' (२।८९) वस्य द्वित्वं - व० → व्व० । अनेन वा ङि० → हिं० सव्वहिं।। [अन्नहिं] अन्य । सप्तमी ङि । 'अधो म-न-याम्' (२७८) यलुक् । 'अनादौ०' (२।८९) नस्य द्वित्वं - न० → न० । अनेन वा ङि० → हिं० अन्नहिं । [कहिं] किम् । सप्तमी ङि । 'किमः कस्त्र-तसोश्च' (३७१) किम् → क० । अनेन वा ङि० → हिं० कहिं । . [जहिं] यद् । सप्तमी ङि । 'आदेर्यो जः' (१२२४५) य० → ज० । 'अन्त्यव्य०' (११११) लुक् । अनेन वा ङि० → हिं० जहिं। [तहिं] तद् । सप्तमी ङि । 'अन्त्य०' (११११) लुक् । अनेन वा ङि० → हिं० तहिं। बहुलाधिकारात् स्त्रियामपि किं-यत्तद्भ्यो हिं आदेशः स्यात् । [काहिं] किम् । सप्तमी ङि । 'किम: कस्त्र-तसोश्च' (३७१) किम् → क० । 'आत्' (२।४।१८) आप्प्र० → आ। अनेन वा ङि० → हिं० काहिं । [जाहिं] यद् । सप्तमी ङि । 'आर्यो जः' (१।२४५) य० → ज० । 'अन्त्यव्य०' (१।११) द्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अनेन वा ङि० → हिं० जाहिं। [ताहि] तद् । सप्तमी ङि । 'अन्त्यव्यः' (१।११) द्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ० । अनेन वा ङि० → हिं० ताहिं। बाहुलकवचनात् 'किं-यत्तदोस्यमामि' (३।३३) इति ङीनिषेधः । पक्षे [सव्वस्सि सव्वम्मि सव्वत्थ ] सर्व (३) । सप्तमी ङि । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२१८९) वस्य द्वित्वं - व० → व्व० । 'उः स्सि-म्मि-त्थाः' (३५९) ङि० →स्सि-म्मि-स्थ आदेशाः सव्वस्सि सव्वम्मि सव्वत्थ। ['अन्नस्सि अन्नम्मि अन्नत्थ ] अन्य (३) । सप्तमी ङि । 'अधो म-न-याम्' (२७८) यलुक् । 'अनादौ०' (२।८९) नस्य द्वित्वं - न० →त्र० । 'डे. स्सि-म्मि-त्थाः' (३।५९) ङि० → स्सि-म्मि-स्थ आदेशाः अन्नस्सि अन्नम्मि अन्नत्थ । स्त्रीलिङ्गे विकल्पपक्षे । यथा - १. A. अन्नस्सि अन्नम्मि अन्नत्थ उदाहरणानि ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy