________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३४१
[राइणा] राजन् । तृतीया टा । 'अन्त्यव्य०' (१।११) न्लुक् । अनेन वा टा० → णा० । 'इर्जस्य णो-णा-ङौ' (३।५२) ज० → जि० । 'क-ग-च-ज०' (१।१७७) ज्लुक् राइणा ।
[रण्णा] राजन् । तृतीया टा । 'अन्त्यव्यः' (१।११) ग्लुक् । अनेन टा० → णा० । 'आजस्य टा-ङसि-ङस्सु सणाणोष्वण्' (३।५५) आज० → अण् । 'लोकात्' (१।१।३) रण्० रण्णा । पक्षे
[राएण कयं] राजन् । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । 'अन्त्यव्य०' (१२११) न्लुक् । 'क-गच-ज०' (१११७७) ज्लुक् । 'टाण-शस्येत्' (३।१४) एत्त्वम् राएण । कयं पूर्ववत् [२।११४] ॥५१॥
इर्जस्य णो-णा-डौ ॥ ८॥३५२ ॥ राजनशब्दसम्बन्धिनो जकारस्य स्थाने णो-णा-ङिषु परेषु इकारो वा भवति । राइणो चिट्ठन्ति पेच्छ आगओ धणं वा । राइणा कयं । राइम्मि । पक्षे-रायाणो । रण्णो । रायणा । राएण | रायम्मि॥ [इर्जस्य] इ प्रथमा सि । ज षष्ठी ङस् । [णोणा] णो-णा-ङि सप्तमी ङि ।
[राइणो चिट्ठन्ति पेच्छ आगओ धणं वा] राजन् (४) । प्रथमा जस् - द्वितीया शस्-पञ्चमी ङसि-षष्ठी ङस् । 'जस्-शस्-ङसि-ङसां णो' (३५०) जसादिविभक्तिस्थाने णो । अनेन वा ज० → जि० । 'क-ग-च-ज०' (१२१७७) ज्लुक् राइणो । चिट्ठन्ति पूर्ववत् [३।२०] । पेच्छ पूर्ववत् [३।२८] । आगओ पूर्ववत् [३।१६] । धनं । 'नो णः' . (१।२२८) नं० → णं० धणं ।
[राइणा कयं] राजन् । तृतीया टा । 'अन्त्यव्य०' (१२११) नलुक् । 'टो णा' (३५१) टा० →णा० । अनेन वा ज० → जि० । 'क-ग-च-ज०' (१।१७७) ज्लुक् राइणा । कयं पूर्ववत् [२।११४] ।
[राइम्मि] राजन् । सप्तमी ङि । 'अन्त्यव्य०' (११११) नलुक् । अनेन वा ज० → जि० । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'डे-म्मि :' (३।११) ङि० → म्मि० राइम्मि । पक्षे
[रायाणो] राजन् । प्रथमा जस् - द्वितीया शस् । 'जस्-शस्-ङसि-ङसां णो' (३.५०) जस्०-शस्० →णो० । 'अन्त्यव्य०' (११११) ग्लुक् । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'जस्शस्-ङसि-त्तो०' (३।१२) दीर्घः- य० → या० रायाणो ।
[रण्णो] राजन् । पञ्चमी ङसि - षष्ठी ङस् वा । 'अन्त्यव्य०' (१।११) न्लुक् । 'जस्-शस्-ङसि-ङसां णो' (३।५०) ङसि० - ङस्० → णो० । 'आजस्य टा-ङसि-ङस्सु०' (३।५५) आज० → अण् । 'लोकात्' (१।१।३) रण० रणो।
[रायणा] राजन् । तृतीया टा । 'अन्त्यव्य०' (१।११) न्लुक् । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'टो णा' (३५१) टा० → णा० रायणा ।
[राएण] राजन् । तृतीया टा । 'टा-आमोर्णः' (३६) टा० →ण । 'अन्त्यव्य०' (१२११) ग्लुक् । 'क-ग-चज०' (१।१७७) ज्लुक् । 'टाण-शस्येत्' (३।१४) एत्त्वम् राएण।
[रायम्मि] राजन् । सप्तमी ङि । 'डे-म्मि उ.' (३.११) ङि → म्मि० । 'अन्त्यव्यः' (१।११) ग्लुक् । 'क-गच-ज०' (१।१७७) ज्लुक् । 'अवर्णो०' (१।१८०) अ० → य० रायम्मि ॥५२॥