________________
२२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
क्वचिच्छन्दःपूरणेऽप्यनुस्वारः -
[देवं-नाग-सुवण्ण] देव-नाग-सुवर्ण । अनेन अनुस्वारः देवं । 'सर्वत्र०' (२२७९) लुक् । 'अनादौ०' (२१८९) णस्य द्वित्वम् देवं-नाग-सुवण्ण ।
क्वचिदनुस्वारो न भवति -
[गिट्ठी मज्जारो मणसिला मणासिला मणोसिला] अत्र अनुस्वारं मुक्त्वा शेषं पूर्ववत् । 'सो रुः' (२२११७२) र० । 'क-ग-ट-ड०' (२७७) श्लुक् । 'लुप्तय-र-व०' (१।४३) दीर्घत्वम् । 'र: पदान्ते०' (१।३।५३) विसर्गः । 'अतो डो विसर्गस्य' (१।३७) विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'श-षोः सः' (१।२६०) शि० → सि० । 'नो णः' (१२२८) न० →ण० ॥२६॥
क्त्वा-स्यादेर्ण-स्वोर्वा ॥ ८॥१॥२७॥ क्त्वायाः स्यादीनां च यौ ण-सू तयोऽरनुस्वारोऽन्तो वा भवति ॥
क्त्वा - काऊणं काऊण । काउआणं काउआण ॥ स्यादि-वच्छेणं वच्छेण ॥ वच्छेसुं वच्छेसु ।। ण-स्वोरिति किम् ? करिअ । अग्गिणो ॥
[क्त्वास्यादेर्णस्वोर्वा ] क्त्वा च स्यादिश्च = क्त्वास्यादि, तस्य = क्त्वास्यादेः । षष्ठी ङस् । णश्च सुश्च = णसू, तयोः = णस्वोः । षष्ठी ओस् । वा प्रथमा सि ।
[काऊणं काऊण] 'डुळंग करणे' (८८८) कृ । करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तूणतुआणा:' (२२१४६) क्त्वा० → तूण० । 'आ: कृगो भूत०' (४।२१४) कृ० → का० । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन वा णस्य अन्ते अनुस्वारः काऊणं काऊण ।
[काउआणं काउआण] कृ। करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तूण-तुआणाः' (२।१४६) क्त्वा० → तुआण० । 'आः कृगो भूत०' (४।२१४) कृ० → का० । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन वा णस्य अन्ते अनुस्वारः काउआणं काउआण ।
[वच्छेणं वच्छेण ] वृक्ष (२) । तृतीया टा । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'छोऽक्ष्यादौ' (२।१७) क्षस्य छः । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वछस्य चः । 'टा-आमोर्णः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्वं-च्छ० → च्छे० । अनेन वा णस्य अन्ते अनुस्वारः वच्छेणं वच्छेण ।
[वच्छेसुं वच्छेसु] वृक्ष (२) । सप्तमी सुप् । 'ऋतोऽत्' (१११२६) वृ० → व० । 'छोऽक्ष्यादौ' (२०१७) क्षस्य छः । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय तुर्य०' (२।९०) पूर्वछस्य चः । 'भिस्भ्यस्सुपि' (३।१५) एत्वं - च्छ० → च्छे० । अनेन वा सुबन्ते अनुस्वारः वच्छेसुं वच्छेसु ।
ण-स्वोरिति किम् ?
[करिअ] 'डुकंग करणे' (८८८) कृ। करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुम०' (२२१४६) क्त्वा० → अत् । 'ऋवर्णस्या०' (४।२३४) कृ→ कर० । 'व्यञ्जनाददन्ते' (४।२३८) अत् । 'एच्च क्त्वा०' (३।१५७) इत्वं करिअ।
[अग्गिणो] अग्नि । प्रथमा जस् । 'जस्-शसोर्णो वा' (३।२२) जस्० → णो० । 'अधो म-न-याम्' (२।७८) न्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वं अग्गिणो ॥२७॥