________________
३१८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
__ [जाइँ वयणाइँ अम्हे] यद् । प्रथमा जस् - द्वितीया शस् वा । 'आदेर्यो जः' (०२४५) य० → ज० । 'अन्त्यव्य०' (१२११) द्लुक् । अनेन जस्-शस्० → इ० - पूर्वस्य च दीर्घः - ज० → जा० जाइँ।
वचन । प्रथमा जस् - द्वितीया शस् वा । 'क-ग-च-ज०' (१११७७) चलुक् । 'अवर्णो यश्रुतिः' (१२१८०) अ० → य० । 'नो णः' (१।२२८) न० → ण० । अनेन जस्-शस्० → इ० - पूर्वस्य च दीर्घः - ण० → णा० वयणा' ।
अस्मद् । षष्ठी आम् । 'णे-णो-मज्झ-अम्ह-अम्हं-अम्हे-अम्हो-अम्हाण-ममाण-महाण-मज्झाण आमा' (३।११४) आमा सह अस्मद् → अम्हे० ।
[उम्मीलन्ति पङ्कयाई चिट्ठन्ति पेच्छ वा] 'उन्मील् । वर्त० अन्ति । 'बहुष्वाद्यस्य न्ति०' (३३१४२) अन्ति० → न्ति० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) उम्मीलन्ति । "अन्त्यव्यः' (१।११) न्लुक् । 'अनादौ०' (२१८९) द्वित्वं - म्मी० उम्मीलन्ति ।
पङ्कज । प्रथमा जस् - द्वितीया शस् वा । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । अनेन जस्-शस्० → इं० - पूर्वस्य च दीर्घः - य० → या० पङ्कयाई। चिट्ठन्ति पूर्ववत् [३।२०] । पेच्छ पूर्ववत् [३३१६] ।
[दहीइं जेम वा हुन्ति ] दधि । प्रथमा जस् - द्वितीया शस् वा । 'ख-घ-थ०' (१२१८७) धि० → हि० । जस्०-शस्० → इं० - पूर्वस्य च दीर्घः - हि० → ही० दहीइं। ___ 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । 'भुजो भुञ्ज-जिम-जेम-कम्माण्ह०' (४।११०) भुज० → जेम इति । पञ्चमी स्व । 'दु-सु-मु०' (३।१७३) स्व० → सु० । 'अत इज्जस्विज्जहीज्जेलुको वा' (३।१७५) सुलुक् जेम । ___ 'भू सत्तायाम्' (१) भू । वर्त० अन्ति । 'अविति हुः' (४६१) भू० → हु० । 'बहुष्वाद्यस्य न्ति०' (३।१४२) अन्ति० → न्ति० हुन्ति ।
[महूई मुञ्च वा] मधु । प्रथमा जस्-द्वितीया शस् वा । 'ख-घ-थ-ध-भाम्' (१२१८७) धु० → हु० । अनेन जस्. -शस्० → इं० - पूर्वस्य च दीर्घः महूई ।
'मुच्लंती मोक्षणे' (१३२०) मुच् । पञ्चमी हि । 'दु-सु-मु०' (३।१७३) हि० → सु० । 'वक्रादावन्तः' (१।२६) अनुस्वारः । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) मुंचसु । 'अत इज्जस्विज्ज०' (३।१७५) सुलुक् मुंच ।
[फुल्लन्ति पङ्कयाणि गेण्ह वा] 'फुल्ल विकसने' (४२९) फुल्ल । वर्त० अन्ति । 'बहुष्वाद्यस्य०' (३,१४२) अन्ति० →न्ति० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (११।३) फुल्लन्ति ।
पङ्कज । प्रथमा जस् - द्वितीया शस् वा । 'क-ग-च-ज०' (१२१७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । अनेन जस्०-शस्० →णि० - पूर्वस्य च दीर्घः पङ्कयाणि ।
'ग्रहीश् उपादाने' (१५१७) ग्रह । पञ्चमी हि । 'ग्रहो वल-गेण्ह०' (४।२०९) ग्रह० → गेण्ह० इति । 'दु-सु-मु०' (३।१७३) हि० → सु० । 'अत इज्जस्विज्ज०' (३।१७५) सुलुक् गेण्ह इति ।
[हुन्ति दहीणि जेम वा] हुन्ति पूर्ववत् । दधि । प्रथमा जस् - द्वितीया शस् वा । 'ख-घ-थ-ध०' (१।१८७) धि० → हि० । अनेन जस्०-शस्० →णि० - पूर्वस्य च दीर्घः दहीणि । जेम पूर्ववत् ।
१. पा० म० - उद्-मील्० उम्मिल्ल० । २. J. 'अधो म-न-याम्' (२।७८) न्लुक् ।