________________
३१६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[कमलाउ] कमल । पञ्चमी ङसि । 'ङसेस्तो -दो-दु०' (३८) ङसि० → दु० । 'जस्-शस्-ङसि०' (३।१२) दीर्घः। 'क-ग-च-ज०' (१११७७) द्लुक् कमलाउ । [कमलस्स ] कमल । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० कमलस्स ॥२३॥
टो णा ॥ ८॥३॥२४॥
पुं-क्लीबे वर्तमानादिदुतः परस्य टा इत्यस्य णा भवति ।।
गिरिणा । गामणिणा । खलपुणा । तरुणा । दहिणा । महुणा ॥ ट इति किम् ? गिरी । तरू । दहिं । महुं ॥ पुं-क्लीब इत्येव - बुद्धीअ घेणूअ कयं ॥ इदुत इत्येव - कमलेण ॥
[टो णा] टा षष्ठी ङस् । णा प्रथमा सि ।
[गिरिणा] गिरि । तृतीया टा । अनेन टा० →णा० गिरिणा। . [गामणिणा] ग्रामं नयतीति क्विप् । 'क्विप्' (५।११४८) क्विप्र० । 'क्विपः' (३।४३) सर्वापहारी लोप: - हुस्व: - णी० → णि० । तृतीया टा । 'सर्वत्र ल-व०' (२७९) लुक् । 'नो णः' (१२२२८) नि० → णि० । अनेन टा० → णा० गामणिणा।
[खलपुणा] खलं पुनातीति क्विप् । 'क्विप्' (५।१।१४८) विप्र० । 'क्विपः' (३।४३) सर्वापहारी लोप: - हूस्वः - पू० → पु० । तृतीया टा । अनेन टा० → णा० खलपुणा ।
[तरुणा] तरु । तृतीया टा । अनेन टा. → णा० तरुणा ।
[दहिणा] दधि । तृतीया टा । 'ख-घ-थ-ध-भाम्' (१।१८७) धि० → हि० । अनेन टा० → णा० दहिणा ।
[महुणा] मधु । तृतीया टा । 'ख-घ०' (११८७) धु० → हु० । अनेन टा० → णा० महुणा । [गिरी] गिरि । प्रथमा सि । 'अक्लीबे सौ' (३१९) दीर्घः - रि० → री० । 'अन्त्यः' (१।११) स्लुक् गिरी । [तरू ] तरु । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - रु० → रू० । 'अन्त्यव्य०' (१।११) स्लुक् तरू ।
[दहिं] दधि । प्रथमा सि । 'ख-घ-थ-ध०' (१।१८७) धि० → हि० । 'क्लीबे स्वरान्म् सेः' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः दहि ।
[महुं] मधु । प्रथमा सि । 'ख-घ-थ-ध०' (१।१८७) धु० → हु० । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः महुं।
[बुद्धीअ कयं] बुद्धि । तृतीया टा । 'टा-ङस्-डेरदादिदेद्वा तु ङसेः' (३।२९) टा० → अ - पूर्वस्य च दीर्घः बुद्धीअ । कयं पूर्ववत् [२।११४] ।
[घेणूअ कयं] धेनु । तृतीया टा । 'टा-ङस्-डेर०' (३।२९) टा० → अ० -पूर्वस्य च दीर्घः । 'नो णः' (१।२२८) नू० → णू० घेणूअ । कयं पूर्ववत् [२।११४] ।
[कमलेण] कमल । तृतीया टा । 'टा-आमोर्णः' (३६) टा० →ण । 'टाण-शस्येत्' (३।१४) एत्त्वं - ल० → ले०कमलेण ॥२४॥