________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३०७
जस्-शस्-डसि-त्तो-दो-द्वामि दीर्घः ॥ ८।३।१२ ॥ एषु परेषु अतो दी? भवति ॥
जसि शसि च वच्छा ॥ ङसि - वच्छाओ । वच्छाउ । वच्छाहि । वच्छाहिन्तो । वच्छा ।। त्तो-दो-दुषु वृक्षेभ्यः → वच्छत्तो । 'हस्वः संयोगे' (१२८४) इति हस्वः । वच्छाओ । वच्छाउ ॥ आमि-वच्छाण ॥ ङसिनैव सिद्धे त्तो-दो-दु ग्रहणं भ्यसि एत्वबाधनार्थम् ॥
[जस्-शस्-डसि-त्तो-दो-द्वामि] जस्-शस्-ङसि-तो-दो-द्वाम् सप्तमी ङि । [दीर्घः] दीर्घ प्रथमा सि ।
[वच्छा] वृक्ष । प्रथमा जस्- द्वितीया शस् । 'ऋतोऽत्' (१११२६) वृ० → व० । 'छोऽक्ष्यादौ' (२०१७) क्ष० → छ० । 'अनादौ०' (२।८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । अनेन दीर्घः-च्छ० → च्छा० । 'जस्-शसोलुंक्' (३।४) जस्-शस्लुक् वच्छा।
[वच्छाओ वच्छाउ वच्छाहि वच्छाहिन्तो वच्छा] वच्छ । पञ्चमी ङसि । 'ङसेस्तो-दो-दु-हि-हिन्तो लुकः' (३८) ङसि० → दो-दु-हि-हिन्तो-पञ्चमे लुक् । अनेन दीर्घः । 'क-ग-च-ज०' (१।१७७) द्लुक् वच्छाओ वच्छाउ वच्छाहि वच्छाहिन्तो वच्छा।
[वच्छत्तो वच्छाओ वच्छाउ] वच्छ (३) । भ्यस्प्र० । 'भ्यसस्तो-दो-दु-हि-हिन्तो-सुन्तो' (३९) भ्यस्स्थाने त्तोदो-दु० । अनेन दीर्घः । प्रथमे 'हुस्वः संयोगे' (१९८४) च्छा० → च्छ० । द्वितीये तृतीये च 'क-ग-च-ज०' (१।१७७) द्लुक् वच्छत्तो वच्छाओ वच्छाउ । [वच्छाण ] वच्छ । षष्ठी आम् । अनेन दीर्घः । 'टा-आमोर्णः' (३६) आम्० →ण वच्छाण ॥१२॥
भ्यसि वा ॥ ८।३।१३ ॥ भ्यसादेशे परे अतो दीर्घा वा भवति ॥ वच्छाहिन्तो वच्छेहिन्तो । वच्छासुन्तो वच्छेसुन्तो । वच्छाहि वच्छेहि ॥ [भ्यसि वा] भ्यस् सप्तमी ङि । वा प्रथमा सि ।
[वच्छाहिन्तो वच्छेहिन्तो वच्छासुन्तो वच्छेसुन्तो वच्छाहि वच्छेहि] वच्छ (६) । पञ्चमी भ्यस्प्र० । 'भ्यसस्तो-दोदु-हि-हिन्तो-सुन्तो' (३९) भ्यस्० → हिन्तो-सुन्तो-हि । अनेन वा दीर्घः - वच्छाहिन्तो वच्छासुन्तो वच्छाहि । पक्षे'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वम्-वच्छेहिन्तो वच्छेसुन्तो वच्छेहि ॥१३॥
टाण-शस्येत् ॥ ८।३।१४ ॥ टादेशे णे शसि च परे अस्य एकारो भवति ॥ टाण-वच्छेण ॥ णेति किम् ? अप्पणा अप्पणिआ अप्पणइआ ॥ शस्-वच्छे पेच्छ । [टाण-शस्येत् ] टाण-शस् सप्तमी ङि । एत् प्रथमा सि ।
[वच्छेण ] वृक्ष । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'छोऽक्ष्यादौ' (२०१७) क्षस्य छः । 'अनादौ०' (२१८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । अनेन एकारः - च्छ० → च्छे० वच्छेण ।