________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
३०१
इहरा इतरथा ॥ ८।२।२१२ ॥ इहरा इति इतरथाऽर्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नेहिं । पक्षे - इअरहा ॥ [इहरा इतरथा ] इहरा प्रथमा सि । इतरथा सप्तमी ङि ।
[इहरा नीसामन्नेहिं] इहरा इति इतरथाऽर्थे अव्ययं च । 'निस्सामान्य । तृतीया भिस् । 'क-ग-ट-ड-त-द-प-शष-स-४ क- )( पामूर्ध्वं लुक्' (२७७) स्लुक् । 'लुप्तय-र-व-श-ष-सां०' (१।४३) नि० → नी० । 'हुस्वः संयोगे' (१८४) मा० → म० । 'अधो म-न-याम्' (२।७८) य्लुक । 'अनादौ०' (२।८९) नस्य द्वित्वम् । 'भिसो हि-हि-हिं' (३७) भिस्० → हिं । 'भिस्-भ्यस्-सुपि' (३।१५) न० → ने० नीसामन्नेहिं । पक्षे -
[इअरहा ] इतरथा । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'ख-घ-थ-ध-भाम्' (१।१८७) था० → हा० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् इअरहा ॥२१२॥
एक्कसरिअंझगिति-सम्प्रति ॥८२।२१३ ॥ एक्कसरिअं झगित्यर्थे सम्प्रत्यर्थे च प्रयोक्तव्यम् ॥ एक्कसरिअं झगिति साम्प्रतं वा ॥ [एक्कसरिअं] झगिति-सम्प्रति इति द्वयोरर्थे एक्कसरिअं इत्यादेशः ॥२१३।।
मोरउला मुधा ॥ ८।२।२१४ ॥ मोरउल्ला इति मुधाऽर्थे प्रयोक्तव्यम् ॥ मोरउल्ला । मुधेत्यर्थः ॥ [ मोरउल्ला मुधा ] मोरउल्ला प्रथमा सि । मुधा सप्तमी ङि ॥२१४॥
दराऽर्धाऽल्पे ॥८२।२१५ ॥ दर इत्यव्ययमर्धाऽर्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर- विअसिअं । अर्धेनेषद्वा विकसितमित्यर्थः ॥
[दराऽर्धाऽल्पे] दर प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । अर्धं च अल्पं च = अर्धाऽल्पम्, तस्मिन् = अर्धाऽल्पे । सप्तमी ङि।
[दर- विअसिअं] विकसित । 'क-ग-च-ज०' (१।१७७) क्लुक् - त्लुक् च । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः विअसि ॥२१५।।
किणो प्रश्ने ॥ ८।२।२१६ ॥ किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि ॥ [किणो प्रश्ने] किणो प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । प्रश्न सप्तमी ङि ।
[किणो धुवसि] 'धूगट् कम्पने' (१२९१) धू । 'धूगेर्धवः' (४५९) धू० → धुव० इति । वर्त० सिव् । 'द्वितीयस्य सि-से' (३।१४०) सिव्० → सि० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लुक्' (१।१०) वस्य अलोपः । 'लोकात्' (१।१।३) धुवसि ॥२१६।। १. थोवागअ-दोसच्चिअ ववहार-वहम्मि होंति सप्पुरिसा । इहरा णीसामण्णेहि तेहिँ कह संगअं होइ ॥ [ग० व० -९६०]
स्तोकागतदोषा एव व्यवहारपथे भवन्ति सत्पुरुषाः । इतरथा निःसामान्यैस्तैः कथं सङ्गतं भवति । २. G. निर्-सामान्य । 'अन्त्य०' (१।११) लुक् । 'लुकि निरः' (१।९३) नि० → नी० ।