________________
३००
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
विकसन्ति । 'क-ग-च-ज०' (१।१७७) क्लुक् विअसन्ति । अप्पणो । प्रथमा सि ।
क्मलसरस् । प्रथमा जस् । 'अन्त्यव्य०' (१।११) स्लुक् । 'स्नमदाम-शिरो-नभः' (११३२) पुंस्त्वम् । 'जस्शसोलुंक्' (३४) जस्लुक् । 'जस्-शस्०' (३।१२) र० → रा० कमलसरा । पक्षे
[सयं चेअ मुणसि करणिज्जं] स्वयं चैव । 'सर्वत्र ल-व०' (२१७९) व्लुक् । 'ऐत एत्' (१।१४८) चै० → चे० । 'क-ग-च-ज०' (१।१७७) व्लुक् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् सयं चेअ । _ 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्त्तः सिव् । 'द्वितीयस्य सि-से' (३।१४०) सिव० → सि० । 'ज्ञो जाण-मुणौ' (४/७) ज्ञा० → मुण० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लुक् (१।१०) अलोपः मुणसि ।
करणीय । 'वोत्तरीयानीय-तीय-कृद्ये ज्जः' (११२४८) य० → ज्ज० । 'हुस्वः संयोगे' (१८४) णी० →णि । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः करणिज्जं ॥२०९॥
प्रत्येकमः पाडिक्कं-पाडिएकं ॥ ८।२।२१० ॥ प्रत्येकमित्यस्याऽर्थे पाडिक्कं-पाडिएक्कं इति च वा प्रयोक्तव्यम् ॥ पाडिक्कं । पाडिएक्कं । पक्षे- पत्तेअं ॥ [प्रत्येकमः पाडिक्कं पाडिएक्कं] प्रत्येकम् षष्ठी ङस् । पाडिकं प्रथमा सि । पाडिएकं प्रथमा सि ।
[पाडिक्कं पाडिएकं पत्तेअं] प्रत्येकम् । अनेन पाडिक्कं० - पाडिएक्कं० । पक्षे- 'सर्वत्र०' (२७९) लुक् । 'अधो म-न-याम्' (२।७८) य्लुक् । 'अनादौ०' (२८९) तस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् पत्तेअं ॥२१०॥
उअ पश्य ॥ ८।२।२११ ॥ उअ इति पश्येत्यर्थे वा प्रयोक्तव्यम् ॥ उअ निच्चल-निष्फंदा । पक्षे- पुलआऽऽदयः ॥ [उअ पश्य ] उअ प्रथमा सि । पश्य प्रथमा सि । 'उअ निच्चल-निष्फंदा भिसिणी-पत्तंमि रेहइ बलाआ । निम्मल-मरगय-भायण-परिट्ठिआ सङ्घ-सुत्ति व्व ॥
उअ इति पश्य इत्यर्थे । बलाका बिसिनीपत्रे - कमलिनीपत्रे राजते । किविशिष्टा बलाका ? निश्चला-निष्पन्दा । निश्चला-बहिर्गीवादिना । निष्पन्दा-अन्तःउत्स्वा(उच्छ्वा)सादिना । केव ? निर्मलमरकतभाजनप्रतिष्ठिता शङ्खशुक्तिरिव इति गाथार्थः ।
[उअ निच्चलनिष्फंदा ] निश्चलनिष्पन्दा । 'क-ग-ट-ड०' (२७७) श्लुक् । 'अनादौ०' (२।८९) चस्य द्वित्वम् । 'ष्प-स्पयोः फः' (२०५३) ष्प० → फ० । 'अनादौ०' (२१८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वफस्य पः। प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् निच्चलनिष्फंदा । पक्षे -
[पुलआऽऽदयः] 'दृशं प्रेक्षणे' (४९५) दृश् । 'दृशो निअच्छ-पेच्छा-ऽवयच्छा०' (४।१८१) इत्यादिना दृश् → पुलअ० इत्यादयः आदेशाः स्युः ॥२१॥
१. [का० प्र० - २८ । गा० को० - ११३ । गा० स० - १२४]
पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥