________________
२९६
व्युत्पत्तिदीपिकाभिधान- बुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
->
जीवित । ‘यावत्तावज्जीविता -ऽऽवर्त्तमाना -ऽवट - प्रावारक- देवकुलैवमेवे वः' (१।२७१) विलुक्-जीवित० जीत० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि०म्० । 'मोऽनु० ' (१।२३) अनुस्वारः जीअं ।
अतीत | 'पानीयादिष्वित्' (१।१०१) ती० ति० । 'क-ग-च- ज० ' (१।१७७) तयोर्द्वयोर्लुक् । सप्तमी ङि । 'डेम्मि ङे:' (३|११) ङि०म्मि० अइअम्मि ।
युष्मद् । सप्तमी ङि । 'तुमे तुमए - तुमाइ - तइ - तए - ङिना' (३।१०१) ङिना सह युष्मद्०
o |
नवरं । यदि । 'आदेर्यो जः' (१।२४५) य० ज० । 'क-ग-च-ज०' (१।१७७) लुक् जइ ।
तद् । प्रथमा सि । ‘अन्त्य० ' (१।११) स्लुक् - लुक् च । 'तदश्च तः सोऽक्लीबे' (३।८६) त० स० । 'आत्' (२|४|१८) आप्प्र० आ । 'समानानां०' (१।२।१) दीर्घः सा ।
‘खिदिंच् परितापे' (१२५९) खिद् । 'खिदेर्जूर - विसूरौ' (४।१३२) खिद्० → जूर आदेशः । भविष्यन्ती स्यति । 'त्यादीनामाद्य०' (३।१३९) स्यति० इ० । 'भविष्यति हिरादिः' (३।१६६) "हि" आगम: । 'एच्च क्त्वा०' (३|१५७) र०→ रि० जूरिहिइ इति व्युत्पत्तिः ।
'[ अव्वो न जामि छित्तं, खज्जउ साली कुरङ्गकीरेहिं ।
उन्नय मज्झ पओहर, झडित्ति ताली न संपडइ ॥ ॥ ]
अस्यार्थः सुता मातरं प्रति वक्ति-अव्वो इति खेदे । अहं क्षेत्रं न यामि । कुरङ्ग-कीरैः शालिः खाद्यताम् । मम पयोधरौ उन्नतौ । झटिति शीघ्रं तालिका न संपतति इत्यर्थः ।
-
[ अव्वो न जामि छित्तं ] 'यांक् प्रापणे' (१०६२) या । वर्त्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव्० 'आदेर्यो जः' (१।२४५) या०जा० जामि ।
→ मि० ।
I
क्षेत्र । द्वितीया अम् । 'क्षः खः०' (२३) ('छोऽक्ष्यादौ' (२।१७)) क्षे० छे० । 'ह्रस्वः संयोगे' (१।८४) छे० → छि० । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अनादौ०' (२२८९) तस्य द्वित्वम् । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः छत्तं ।
[ अव्वो नासेन्ति दिहिं...
]
अस्यार्थः- अव्वो इति विषादे । तस्यैव गुणा धृतिं नाशयन्ति, पुलकं वर्धयन्ति, रणरणकमौत्सुक्यं ददति । इदानीं तस्यैव त एव गुणा धृतिं नाशयन्ति । एतत् कथं जातम् ? । नु इति वितर्के । इति गाथार्थः ।
अथ व्युत्पत्तिः - "णशूच् अदर्शने' (१२०२) णश् । 'आदेः ष्णो०' (शाकटायने (४।२।२६१ ) ) नश् । नश्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः न० ना० । वर्त्त० अन्ति । 'बहुष्वाद्य०' (३।१४२) अन्ति० न्ति० । 'णेरदेदावावे' (३।१४९) इ० ए० । 'लोकात् ' (१।१।३) नासेन्ति ।
धृति । द्वितीया अम् । ‘धृतेर्दिहिः ' (२।१३१) धृति० दिहि० । 'शेषेऽदन्तवत्' (३।१२४) इति न्यायात् 'अमोऽस्य' (३५) अलुक् दिहिं ।
१. अव्वो ! न जामि खेत्ते साली खज्जंतु कीरनिवहेहिं । जाणंता वि हयासा पहिया पुच्छंति मे मग्गं ॥ [ सु० गा० सं० - ६५ ] २. सि० श० - 'नशौच् अदर्शने' (१२०२) नश् ।