________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२९१
[ऊ णिल्लज्ज !] ऊ इति गर्हायाम् । हे निर्लज्ज ! । 'सर्वत्र ल-व०' (२७९) लुक् । 'वाऽऽदौ' (१।२२९) नि० → णि० । 'अनादौ०' (२।८९) लस्य द्वित्वम् णिल्लज्ज !। __ [ऊ किं मए भणियं ] अस्मद् । तृतीया टा । 'मि-मे-ममं-ममए-ममाइ-मइ-मए-मयाइ-णे टा' (३।१०९) टेन सह अस्मद् → मए० । भणितम् । 'क-ग-च-ज०' (१२१७७) त्लुक् भणिअं ।
[ऊ कह मुणिआ अहयं] कथं । 'मांसाऽऽदेर्वा' (१।२९) अनुस्वारलुक् । 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः कह।
मुनिता-ज्ञाता । 'नो णः' (११२२८) नि० →णि । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् मुणिआ ।
अस्मद् । प्रथमा सि । 'अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना' (३।१०५) सिना सह अस्मद् → अहयं ।
[ऊ केण न विण्णायं] विज्ञात । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'अनादौ०' (२१८९) णस्य द्वित्वम् । 'क-गच-ज०' (१११७७) त्लुक् । 'अवर्णो यश्रुतिः' (१६१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः विण्णायं ॥१९९।।
थू कुत्सायाम् ॥ ८।२।२०० ॥ थू इति कुत्सायां प्रयोक्तव्यम् ॥ थू निल्लज्जो लोओ ॥ [थू कुत्सायाम् ] थू प्रथमा सि । कुत्सा सप्तमी ङि ।
[थू निल्लज्जो लोओ ] निर्लज्ज । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२८९) लस्य द्वित्वम् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० निल्लज्जो । लोक। प्रथमा सि । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अतः से?:' (३।२) सि० → डो० → ओ० लोओ ॥२००॥
रे-अरे सम्भाषण-रतिकलहे ॥ ८।२।२०१ ॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यौ । रे सम्भाषणे - रे हिअय ! मडह-सरिआ । अरे रतिकलहे-अरे मए समं मा करेसु उवहासं ॥ [रे-अरे ] रे- अरे प्रथमा 'औ । [सम्भाषणरतिकलहे] सम्भाषणं च रतिकलहश्च = सम्भाषणरतिकलहम्, तस्मिन् = सम्भाषणरतिकलहे । सप्तमी ङि। [रे हिअय ! मडहसरिआ जलभरवुज्झंत-सुक्कदारु व्व । ठाणे ठाणे चिअ लग्गमाण केणावि डज्झिहिसि ॥१॥]
अस्या व्याख्या - रे हृदय ! अल्पसरित् जलभरोह्यमानशुष्कदारुवत् स्थाने स्थाने लगमान: केनापि दह्यसे । कोऽर्थः? यथा शुष्कं काष्ठं अल्पनदीप्रवाहे वहति, क्वचिद् विलग्नस्थाने लगति । केनापि गृहीत्वा इन्धनं क्रियते । तथा हे हृदय ! १. K. सि । २. [गा० को० - २६१३ । गा० स० - २५] ३. पाठां० - गा० स० - जलरअहीरन्तदीहदारू व्व ।
हे हृदय ! स्वल्पसरिज्जलरयहि(ही)यमाणदीर्घदारुवत् । स्थाने स्थाने एव लगत् केनापि धक्ष्यसे ॥