________________
२९०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
रहस्य । 'अधो म-न-याम्' (२१७८) य्लुक् । 'अनादौ०' (२१८९) सस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः रहस्सं । __ [न हु णवरं संगहिआ] नवर । ‘णवर केवले' (२।१८७) णवर आदेशः । 'वक्रादावन्तः' (१।२६) अनुस्वारः णवरं।
संगृहीता । 'ऋतोऽत्' (१।१२६) गृ० → ग० । 'पानीयादिष्वित्' (१।१०१) ही० → हि० । 'क-ग-च-ज०' (१।१७७) त्लुक् संगहिआ ।
[एअं खु हसइ] एतद् । 'वा स्वरे मश्च' (११२४) द् → म्० । 'क-ग-च-ज०' (१११७७) त्लुक् । 'मोऽनु०' (१।२३) अनुस्वारः एअं । खु । हसति । 'त्यादीनामाद्य०' (३।१३९) ति० → इ० हसइ ।
[जलहरो खु धूमवडलो खु] जलधर । 'ख-घ-ध-थ-भाम्' (१।१८७) ध० → ह० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० जलहरो।।
धूमपटल । 'पो वः' (०२३१) प० → व० । 'टो डः' (१।१९५) ट० → ड० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० धूमवडलो।
[तरिउं ण हुणवर इमं ] 'तृ प्लवन-तरणयो' (२७) तू । तुम्प्र० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । “एच्च क्त्वातुम्०' (३६१५७) इ० । 'ऋवर्ण०' (४।२३४) तर् । 'लोकात्' (१।१३) तरितुम् । 'क-ग-च-ज०' (१११७७) त्लु क् तरिउं। __ण हुणवर । इदम् । द्वितीया अम् । 'इदम इमः' (३।७२) इदम् → इम० । 'आत्' (२।४।१८) आप्प्र० → आ। 'दीर्घ-हुस्वौ०' (१।४) आ० → अ० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनुस्वारः' (१।२३) इमं ।
इमां नदी केवलं तरीतुं न सम्भावयामि । [एअं खु हसइ ] हसइ पूर्ववत् ।
[को ख एसो सहस्ससिरो] किम् । प्रथमा सि । 'किमः कस्त्र-तसोश्च' (३७१) किम् → क० । 'अत: से?ः' (३।२) सि० → डो० → ओ० को ।
खु । एतद् । प्रथमा सि । 'अन्त्य०' (१।११) लुक् । 'तदश्च तः सोऽक्लीबे' (३८६) त० → स० । 'वैतत्तदः' (३।३) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् एसो।
सहस्रशिरस् । सहस्राणि शिरांसि यस्य सः । प्रथमा सि । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) सस्य द्वित्वम् । 'श-षोः सः' (१।२६०) शि० → सि० । 'अन्त्य०' (११११) स्लुक् । 'अत: से?:' (३२) सि० → डो० → ओ० सहस्ससिरो ॥१९८॥
ऊ गर्हा-ऽऽक्षेप-विस्मय-सूचने ॥ ८।२।१९९ ॥ ऊ इति गर्दाऽऽदिषु प्रयोक्तव्यम् ॥
गर्हा-ऊ णिल्लज्ज ! । प्रक्रान्तस्य वाक्यस्य विपर्यासाशङ्काया विनिवर्तनलक्षण आक्षेपः ॥ ऊ कि मए भणिअं। विस्मये - ऊ कह मुणिआ अहयं । सूचने - ऊ केण न विण्णायं ॥
[ऊ गर्हाऽऽक्षेपविस्मयसूचने] ऊ प्रथमा सि । गर्दा च आक्षेपश्च विस्मयश्च सूचनं च = गर्हाऽऽक्षेपविस्मयसूचनम्, , तस्मिन् = गर्दाऽऽक्षेपविस्मयसूचने । सप्तमी ङि ।