________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[दे पसिअ ताव सुन्दरि ! पुणो वि सुलहाई रूसिअव्वाई। एसा मयच्छि ! मयलंछणुज्जला गलइ छणराई ॥१॥]
अस्यार्थः- दे इति सम्मुखीकरणे अव्ययम् । रुष्टां प्रियां सम्मुखीकृत्य भर्ता वक्ति, हे सुन्दरि ! त्वं तावत् प्रसीद, रुषितव्यानि पुनरपि सुलभानि भविष्यन्ति । हे मृगाक्षी ! एषा क्षणरात्रिः- पर्वरात्रिः गलति- वृथा याति । रात्रिः कथम्भूता? मृगलाञ्छनोज्ज्वला, मृगलाञ्छनश्चन्द्रः, तेन उज्ज्वला-निर्मला इति गाथार्थः ।
प्रसीद । 'सर्वत्र०' (२।७९) लुक् । 'पानीयादिष्वित्' (१।१०१) सी० → सि० । 'क-ग-च-ज०' (१।१७७) द्लुक् पसिअ ।
तावत् । प्रथमा सि । 'अन्त्य०' (१।११) त्लुक् । 'अव्ययस्य' (३।२७) सिलुप् ताव । [दे आ ! पसिअ निअत्तस, मुहससिजुण्हाविलुत्ततमनिवहे। अहिसारिआण विग्धं करेसि अन्नाण वि हयासे ! ॥१॥]
अस्यार्थ:- दे इति सम्मुखीकरणे । आ इति सम्बोधने हे ! । मुखशशिज्योत्स्नाविलुप्ततमोनिवहे त्वं प्रसीद-निवर्तस्व । हे हताशे ! अन्यासामप्यभिसारिकाणां विघ् करोषि । कोऽर्थः ? इष्टपुरुषमुद्दिश्य कांचित्(कश्चित्) स्त्रियं गच्छन्ती सखी
वं इष्टपुरुष, मा याहि । गमननिषेधे हेतमाह - तव मुखचन्द्रकान्त्या मार्गे उद्योतो भविष्यति, तेन तवापि विघ्नं भविष्यति अन्यासामपि, इष्टपुरुषोद्देशेन गच्छतीनामभिसारिकाणां विघ्नं भविष्यति, ततो मा याहि इति भावार्थः गाथार्थश्च ।
प्रसीद । 'पानीयादिष्वित्' (१।१०१) सी० → सि० । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'सर्वत्र०' (२७९) लुक् पसिअ ।
'वृतूङ् वर्तने' (९५५) वृत्, निपूर्व० । पञ्चमी स्व । 'दु-सु-मु विध्यादि०' (३६१७३) स्व० → सु० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'क-ग-च-ज०' (१।१७७) व्लुक् । 'शकादीनां द्वित्वम्' (४।२३०) त० निअत्तसु ॥१९६।।
हुं दान-पृच्छा-निवारणे ॥ ८।२।१९७ ॥ हुं इति दानादिषु प्रयुज्यते ॥ दाने - हुं गेण्ह अप्पणो च्चिअ । पृच्छायाम्-हुँ साहसु सब्भावं । निवारणे - हुं निल्लज्ज समोसर ||
[हुं दानपृच्छानिवारणे] हुं प्रथमा सि । दानं च पृच्छा च निवारणं च = दानपृच्छानिवारणम्, तस्मिन् = दानपृच्छानिवारणे । सप्तमी ङि ।
[हुं गेण्ह अप्पणो च्चिअ] हुं इति दाने अव्ययम् । 'ग्रहीश् उपादाने' (१५१७) ग्रह । 'ग्रहो वल-गेण्ह-हर-पङ्ग०' (४।२०९) ग्रह् → गेण्ह० । पञ्चमी हि । 'दु-सु-मु विध्यादि०' (३।१७३) हि० → सु० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'अत इज्जस्विज्जहीज्जे-लुको वा' (३।१७५) सुलुक् । 'लुक् (१।१०) एहस्य अलुक् । 'लोकात्' (१।१।३) गेह।
स्वयम् । 'स्वयमोऽर्थे अप्पणो नवा' (२२२०९) स्वयम्० → अप्पणो० ॥ १. दे सुअणु ! पसिअ एहि पुणो.... [गा० स० -५/६६] । हे सुतनु ! प्रसीदेदानी पुन.... । २. [शृ० प्र० - ७१७६ । ध्व० लो० - प्रथमोद्योतः । स० क० - प्रथमोल्लास: । गा० स० - ९६८]
प्रार्थवे तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकाणां विघ्नं करोषि अन्यासामपि हताशे ! ॥