________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२८७
अन्नो को वि सहावो, वम्महसिहिणो हले ! हयासस्स । विज्झाय(इ) नीरसाणं, हिअए सरसाण पज्जलइ ॥१॥]
अस्यार्थः - हे हले ! हे सखि ! मन्मथ एव शिखी-वह्निः, तस्य = मन्मथशिखिनः, अन्यः कोऽपि स्वभावः, किंलक्षणस्य मन्मथशिखिनः ? हताशस्य - निन्द्यस्य अन्यस्वभावत्वमेव प्रकटयति, नीरसानां हृदये विधमति, सरसानां हृदये प्रज्वलति । अन्यस्तु वह्निनीरसस्थाने निर्जलप्रदेशे प्रज्वलति, सरसस्थाने सजलप्रदेशे विधमति । कन्दग्निस्ततो विपरीत इति गाथार्थः ।।
सखि ! इत्यस्य अनेन हले ! इत्यादेशः हले!।
हताशस्य । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । 'श-षोः सः' (१।२६०) श० → स० । षष्ठी ङस् । 'ङस स्सः' (३।१०) डस्० → स्स० हयासस्स । पक्षे -
[ सहि ! एरिसि च्चिअ गई, मा रुवउ तंसवलियमुहयंदं । एयाण बालवालुंकितंतुकुडिलाण पेम्माण ॥१॥]
अस्यार्थ:- हे सरिव ! एतेषा प्रेम्णां गतिरीदृश्येवेति, त्र्यंसवलितमुखचन्द्रं यथास्यात् तथाभवतीति मा रोदितु । कथम्भूतानां प्रेम्णां ? बालवालुंकितन्तुकुटिलानाम् - बालचिर्भटीतन्तुवक्राणाम् । कोऽर्थः ? सखी सखी वक्ति, हे सखि ! मुखचन्द्रं वक्रीकृत्य रोदनं कुतः क्रियते, प्रेम्णां गतिस्तु ईदृशी एव वत्तते इति भावार्थः ।
ईदृशी एव । 'एत् पीयूषाऽऽपीड-बिभीतक-कीदृशेदृशे' (१।१०५) ई० → ए० । 'दृशः क्विप्-टक्-सकः' (१२१४२) रि० । 'श-षोः सः' (१।२६०) शी० → सी० । 'णइ चेअ चिअ च्च अवधारणे' (२०१८४) एव० → चिअ० । 'सेवादौ वा' (२।९९) द्वित्वं-चि० → च्चि० । 'हुस्वः संयोगे' (१८४) सी० → सि० एरिसि च्चिअ ।
गति । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यः' (१।११) स्लुक् गई ॥१९५॥
दे सम्मुखीकरणे च ॥ ८।२।१९६ ॥ सम्मुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिअ ताव सुन्दरि ! । दे आ ! पसिअ निअत्तसु ॥ [दे सम्मुखीकरणे च] दे प्रथमा सि । सम्मुखीकरण सप्तमी ङि । च प्रथमा सि ।
१. [व० ल० - अणंवगज्जा ३९० । गा० को० - ३।१९ । गा० स० - ५।३०]
अन्यः कोऽपि स्वभावो मन्मथशिखिनः सखि ! हताशस्य । विध्यते नीरसानां हृदये सरसानां प्रज्वलति ॥
१. पाठां०- व० ल० - गा० को० - गा० स० - हला ! । २. गा० स० - सरसाणं झत्ति पज्जलइ = सरसानां झटिति प्रज्वलति । २. [शृ० प्र० - ३०।२२० । गा० स० - १११० । गा० को० - १९ । गा० र० - ४२०]
सखि ! ईदृश्येव गतिः, मा रोदी: त्र्यंसवलितमुखचन्द्रम् । एतेषां बालकर्कटीतन्तुकुटिलानां प्रेम्णाम् || १. पाठां०- गा० स० ईरिसि । २. गा० र० - इंदं । ३. गा० स० - तिर्यग् ।