________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२७७
इदानीम् । 'एण्हि - एत्ताहे इदानीमः' (२।१३४) इदानीम् → एत्ताहे० । प्रथमा सि । 'अव्ययस्य०' (३।२।७) सिलुप् एत्ताहे।
न । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् न ।
'भू सत्तायाम्' (१) भू । भविष्यन्ती स्यति । 'भुवेर्हो-हुव-हवाः' (४।६०) भू० → हो० । 'भविष्यति हिरादिः' (३।१६६) स्य० → हि० । 'त्यादीनामाद्यत्रयस्या०' (३३१३९) ति० → इ० । बाहुलकात् 'पदयोः सन्धिर्वा' (१५) इति एकपदेऽपि सन्धिः होही ।
'भण शब्दे' (२६४) भण् । भणतीत्येवंशीलो धर्मो वा - साधुर्वा । 'तृन् शील-धर्म०' (५।२।२७) तृन्प्र० । 'शीलाद्यर्थस्येरः' (२।१४५) तृन्० → इर० । 'लोकात्' (१।१३) भणिर । 'अजातेः पुंसः' (३।३२) ङीप्र० → ई० इति । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।१।३) भणिरी ।
सा । 'जिष्विदाङ् मोचने च' (९४६) ष्विद् । 'ष्विदांच गात्रप्रक्षरणे' (११७८) ष्विद् । 'षः सोऽष्ट्यै०' (२।३।९८) स्विद् । वर्त० ते । 'त्यादीनामा०' (३।१३९) इ० । 'क्यः शिति' (३४/७०) क्यप्र० → य इति । 'लोकात्' (१२१०३) स्विद्यइ । 'सर्वत्र ल-व०' (२।७९) व्लुक् । 'स्विदां ज्जः' (४।२२४) द्यस्य ज्ज० सिज्जइ ।
युष्मद् । षष्ठी ङस् । 'तइ-तु-ते-तुम्ह-तुह०' (३।९९) युष्मद् → तुह० ।
कार्य । 'हस्वः संयोगे' (१९८४) का० → क० । 'द्य-यय-याँ जः' (२०२४) र्यस्य ज० । 'अनादौ०' (२।८९) जस्य द्वित्वम् । सप्तमी डि। 'डे-म्मि-:' (३।११) ङि० → डे० →ए । 'डित्यन्त्य०' (२२१२११४) अलुक् कज्जे ।
हन्दि विषादे - स चलने यदा नतः तदा न मानितः । स इदानीं भविष्यति न वा इति विकल्पः । सा भणिष्यति न वा इति पश्चात्तापः । किं कथयिष्यति ? तदाऽऽह-तव कार्ये सा स्विद्यते । खेदं प्राप्नोतीत्यर्थः ॥१८०॥
. हन्द च गृहाणार्थे ॥ ८।२।१८१ ॥ हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् ।। हन्द पलोएसु इमं । हन्दि । गृहाणेत्यर्थः ॥ [हन्द च गृहाणार्थे ] हन्द प्रथमा सि । च प्रथमा सि । गृहाणार्थ सप्तमी ङि । [हन्द पलोएसु इमं] हन्द । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् हन्द ।
'लोकङ् दर्शनाङ्कयोः(दर्शने)' (६१२) लोक्, प्रपूर्व० | पञ्चमी स्व । 'दु-सु-मु विध्यादिष्वेकस्मिस्त्रयाणाम्' (३।१७३) स्व० → सु० । 'व्यञ्जनाददन्ते' (४/२३९) अत् । 'लोकात्' (१।१।३) लोकसु । 'वर्तमाना-पञ्चमी-शतृषु वा'(३।१५८) एत्वं - क० → के० । 'क-ग-च-ज०' (१२१७७) क्लु क् । 'सर्वत्र ल-व०' (२१७९) लुक् पलोएस ।
इदम् । द्वितीया अम । 'इदम इमः' (३।७२) इदम० र इमः । 'अमोऽस्य' (14) अम०म० । 'म (१।२३) अनुस्वारः इमं । इदं वस्तु प्रलोकयस्व-गृहाण इत्यर्थः । [हन्दि ] हन्दि अव्ययं - गृहाण ॥१८१॥
मिव-पिव-विव-व्व-व-विअ इवार्थे वा ॥ ८।२।१८२ ॥ एते इवाऽर्थे अव्ययसंज्ञकाः प्राकृते वा प्रयुज्यन्ते ।।
कुमुअं मिव । चंदणं पिव । हंसो विव । साअरो व्व । खीरोओ सेसस्स व निम्मोओ, तुह जास रासी परिप्फुरइ । कमलं विअ । पक्षे-नीलुप्पलमाला इव ॥