________________
२७४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[अवयासइ ] सा(अ)वकाशं करोति ददाति वा सा(अ)वकाशयति । [ फुम्फुलइ ] उत्पाटयति कथयति वा । [ उप्फालेइ] उत्पाटयति कथयति वा । [कृष्टः ] पण्डितवाचकः ।
[मन्दर-यड-परिघटुं] मन्दर-तट-परिघष्ट । 'क-ग-च-ज०' (१९७७) तलक । 'अवर्णो यतिः ' (१९८०) अ० → य० । 'टो डः' (१।१९५) टस्य डः । 'ऋतोऽत्' (१।१२६) घृ० → घ० । 'ष्टस्या०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्य०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः मन्दर-यड-परिघटुं ।
[तहिअस-निहट्ठाणङ्ग] तद्दिवस-निघृष्टाऽनङ्ग । 'क-ग-च-ज०' (१।१७७) व्लुक् । 'ऋतोऽत्' (१।१२६) घृ० → घ० । 'ख-घ०' (१।१८७) घ० → ह । 'ष्टस्या०' (२३४) ष्टस्य ठः । 'द्वितीय-तुर्य०' (२।९०) पूर्वठस्य टः । 'नो णः' (११२२८) न० → ण० तद्दिअस-निहट्ठाणङ्ग।
आर्षे तु यथादर्शनं सर्वे प्रयोगा अविरुद्धा एव-घट्ठा.......... ।
[विउसा] विद्वस् । आर्षे विउस इति निपातः । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्ङसि०' (३।१२) दीर्घः स० → सा० विउसा ।
[सुअ-लक्ख णाणुसारेण] श्रुत-लक्षणानुसारेण । 'सर्वत्र ल.' (२७९) लुक् । 'श-षोः सः' (१।२६०) शु० → सु० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'क्षः ख:०' (२३) क्ष० → ख० । 'अनादौ०' (२१८९) खस्य द्वित्वम् । 'द्वितीय-तुर्य०' (२।९०) पूर्वखस्य कः । 'नो णः' (१।२२८) नु० → णु० । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण० । 'टाण-शस्येत्' (३।१४) र० → रे० सुअ-लक्खणाणुसारेण ।
[वक्वन्तरेसु अ पुणो] वाक्यान्तरेषु च पुनः । वाक्यान्तर । सप्तमी सुप् । 'हुस्वः संयोगे' (१९८४) हूस्वः । 'अधो म-न-याम्' (२।७८) य्लुक् । 'अनादौ०' (२।८९) कस्य द्वित्वम् । 'भिस्-भ्यस्-सुपि' (३।१५) र० → रे० वक्वन्तरेसु। च । 'क-ग-च-ज०' (१२१७७) च्लुक् अ । पुनः । 'नो णः' (११२२८) न० → ण । 'अतो डो विसर्गस्य' (११३७) विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् पुणो ॥१७४||
अव्ययम् ॥ ८॥२॥१७५ ॥ अधिकारोऽयम् । अतः परं ये वक्ष्यन्ते आ पादसमाप्तेस्ते अव्ययसंज्ञा ज्ञातव्याः ॥१७५।।
तं वाक्योपन्यासे ॥८।२।१७६ ॥ तमिति वाक्योपन्यासे प्रयोक्तव्यम् ॥ तं तिअसबन्दिमोक्खं ॥ [तं वाक्योपन्यासे ] तं प्रथमा सि । वाक्योपन्यास सप्तमी ङि।
[तं तिअसबन्दिमोक्खं] तं । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् तं । त्रिदशबन्दिमोक्ष । 'सर्वत्र ल-व०' (२७९) लुक् । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'श-षोः सः' (१।२६०) श० → स० । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्षस्य खः । 'अनादौ०' (२१८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (११२३) अनुस्वारः तिअसबन्दिमोक्खं ।