SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६४ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [पुरिल्लं] 'पुर । पुरे भवं अथवा पुरा भवं = पुरिल्लं । अनेन डिल्लप्रत्यय → इल्ल इति । 'डित्यन्त्य०' (२।१२११४) रमध्याद् अलोप: । 'लोकात्' (१।१।३) पुरिल्ल० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पुरिल्लं । [हेद्विवं] अधस् । अधो भवं = हेट्ठिल्लं । 'अधसो हेटुं' (२।१४१) अधस्० → हेटु० इति । अनेन डिल्लप्रत्यय → इल्ल इति । 'डित्यन्त्य०' (२।१।११४) द्रुमध्याद् अलोपः । 'लोकात्' (१।१३) हेट्टिल० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः हेटिलं । [उवरिलं] उपरि । उपरि भवम् = उवरिल्लं । 'पो वः' (१२२३१) पस्य वः । अनेन डिल्लप्रत्यय → इल्ल इति । 'डित्यन्त्य०' (२।१।११४) रि-मध्याद् इलोपः । 'लोकात्' (१२१३) उवरिल्ल० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः उवरिल्लं । [अप्पुलं] आत्मन् । आत्मनि भवम् = अप्पुल्लं । 'अन्त्य०' (१।११) ग्लुक् । 'हुस्वः संयोगे' (१९८४) आ० → अ० । 'भस्मा-ऽऽत्मनोः पो वा' (२५१) त्मस्य पः । 'अनादौ०' (२।८९) पस्य द्वित्वम् । अनेन डुल्लप्रत्यय → उल्ल इति । 'डित्यन्त्य०' (२।१११४) । प-मध्याद् अलुक् । 'लोकात्' (१।१३) अप्पुल्ल० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अप्पुलं ॥१६३॥ स्वार्थे कश्च वा ॥ ८।२।१६४ ॥ स्वार्थे कश्चकारादिल्लोल्लौ डितौ प्रत्ययौ भवतो वा ।। क - कुंकुमपिञ्जरयं । चन्दओ । गयणयम्मि । धरणीहरपक्खुब्भन्तयं । दुहिअए राम-हिअयए । इहयं । 'आलेढुंअं - आश्लेष्टुमित्यर्थः ॥ द्विरपि भवति - बहुअयं ॥ ककारोच्चारणं पैशाचिकभाषार्थम् - यथा वतनके वतनकं समप्पेत्तून ॥ इल्ल - निज्जिआसोअ - पल्लविल्लेण । पुरिल्लो - पुरा पुरो वा ॥ उल्ल - मह पिउल्लओ । मुहल्लं । हत्थुल्ला ॥ पक्षे - चन्दो । गयणं । इह । आलेट्टुं । बहु । बहुअं । मुहं । हत्था ॥ कुत्सादिविषये तु संस्कृतवदेव कप् सिद्धः । यावादिलक्षणः कः प्रतिनियतविषय एवेति वचनम् ॥ [स्वार्थे कश्च वा] स्वार्थ सप्तमी ङि । क प्रथमा सि । च प्रथमा सि । वा प्रथमा सि । [कुंकुमपिञ्जरयं] कुंकुमपिंजर । अनेन कप्र० । 'क-ग-च-ज०' (१११७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः कुंकुमपिंजरयं । [चन्दओ] चन्द्र । अनेन कप्र० । 'द्रे रो नवा' (२१८०) लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि। 'अत: से?:' (३२) सि० → डो० → ओ० चन्दओ। १. पा० म० - पुरातन - पौरस्त्य - पौर → पुरिल्ल वि० । २. G. आलिठ्ठयं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy