________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२४१
एकस्वरे श्वः-स्वे ॥ ८।२।११४ ॥ एकस्वरे पदे यौ श्वस्-स्व इत्येतौ तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति । श्वः कृतम् → सुवे कयं । स्वे जनाः → सुवे जणा || एकस्वर इति किम् ? स्वजनः → सयणो ॥ [एकस्वरे ] एकस्वर सप्तमी ङि।
[श्वःस्वे] श्वस् च स्वश्च = श्वःस्वम्, तस्मिन् = श्वःस्वे । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् । सप्तमी ङि । 'अव्ययस्य' (३।२।७) ङिलुप् ।
[सुवे कयं] श्वस् । श्-व इति विश्लेषे अनेन वपूर्व उ० । 'लोकात्' (११।३) शु० । 'श-षोः सः' (१।२६०) शु० → सु० । 'एच्छय्यादौ' (१।५७) व० → वे० । 'अन्त्य०' (१।११) स्लुक् सुवे । कृत । 'ऋतोऽत्' (१।१२६) कृ० → क० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः कयं ।
[सुवे जणा] स्व । प्रथमा जस् । स्-व इति विश्लेषे अनेन वपूर्व उ० । 'लोकात्' (१।११३) सु० । 'अतः सर्वादेर्डेजसः' (३।५८) जस्० → डे० → ए० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् सुवे । जन । प्रथमा जस् । 'नो णः' (१।२२८) न० → ण । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्०' (३।१२) ण० → णा० जणा ।
[सयणो] स्वजन । 'सर्वत्र ल०' (२।७९) व्लुक् । 'क-ग-च-ज०' (११७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'अतः सेझैः' (३२) सि० → डो० → ओ० सयणो ॥११४॥
ज्यायामीत् ॥ ८।२।११५ ॥ ज्याशब्दे अन्त्यव्यञ्जनात्पूर्व ईद् भवति ॥ जीआ । [ज्यायामीत् ] ज्या सप्तमी ङि । ईत् प्रथमा सि ।
[जीआ] ज्या । ज-या इति विश्लेषे अनेन यापूर्वं ई० । 'लोकात्' (१।१३) जी० । 'क-ग-च-ज०' (१११७७) यूलुक् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् जीआ ॥११५।।
करेणू-वाराणस्यो र-णोर्व्यत्ययः ॥ ८।२।११६ ॥ अनयो रेफ-णकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ।। कणेरू । वाणारसी ॥ स्त्रीलिङ्गनिर्देशात् पुंसि न भवति । एसो करेणू ॥ [करेणूवाराणस्योः ] करेणूश्च वाराणसी च = करेणूवाराणस्यौ, तयोः = करेणूवाराणस्योः । षष्ठी ओस् । [रणोः ] रश्च ण् च = रणौ, तयोः = रणोः । षष्ठी ओस् । [व्यत्ययः] व्यत्यय प्रथमा सि । [ कणेरू ] करेणू । अनेन व्यत्ययः । रेणूस्थाने णेरू० । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् कणेरू । [वाणारसी] वाराणसी। अनेन व्यत्ययः । राणस्थाने णार० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् वाणारसी ।