SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ॥ २३९ उच्चाऽर्हति ॥८।१११ ॥ अर्हत्शब्दे संयुक्तस्य अन्त्यव्यञ्जनात्पूर्व उत्-अदितौ च भवतः ॥ अरुहो अरहो अरिहो । अरुहन्तो अरहन्तो अरिहन्तो ॥ [उच्चाऽर्हति ] उत् प्रथमा सि । च प्रथमा सि । अर्हत् सप्तमी ङि । [अरुहो अरहो अरिहो ] 'अर्ह पूजायाम्' (५६४) अर्ह । अर्हतीति । 'अर्होऽच्' (५।१।९१) अच्प्र० → अ। 'लोकात्' (१।१।३) अर्ह इति जातः । र-ह इति विश्लेषे अनेन प्रथमे हात्पूर्व उ० । द्वितीये हात्पूर्व अ० । तृतीये हात्पूर्व इ० । 'लोकात्' (१।१।३) रु-र-रि । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० अरुहो अरहो अरिहो । [अरुहन्तो अरहन्तो अरिहन्तो] अर्हन् । अर्हतीति । 'सुग्-द्विषार्हः सत्रि--शत्रु-स्तुत्ये' (५।२।२६) शतृप्र०(अतृश्प्र०) → अत् । 'लोकात्' (१।१।३) अर्हत् । 'न्त-माणौ' (३।१८०) ('गोणादयः' (२।१७४)) अत्स्थाने न्त० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । र्-ह इति विश्लेषे अनेन प्रथमे हात्पूर्व उ० । द्वितीये हात्पूर्व अ० । तृतीये हात्पूर्व इ० । 'लोकात्' (१।१।३) रु-र-रि । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० अरुहन्तो अरहन्तो अरिहन्तो ॥१११।। पद्म-छद्म-मूर्ख-द्वारे वा ॥ ८।२।११२ ॥ एषु संयुक्तस्य अन्त्यव्यञ्जनात्पूर्व उद वा भवति ॥ पउमं 'पअमं पइमं पोम्मं । छउमं छअमं छइमं छम्मं । मुरुक्खो मुक्खो । दुवारं पक्षे-वारं देरं दारं ॥ [पद्मछामूर्खद्वारे ] पद्म च छद्म च मूर्खश्च द्वारं च = पद्मछद्ममूर्खद्वारम्, तस्मिन् = पद्मछद्ममूर्खद्वारे । सप्तमी ङि । [वा] वा प्रथमा सि । [पउमं पअमं पइमं पोम्मं] पद्म । द्-म इति विश्लेषे अनेन वा मात्पूर्व उ० । द्वितीये अ० । तृतीये इ० । 'लोकात्' (१।१३) पदुम पदम पदिम इति स्थिते 'क-ग-च-ज०' (१।१७७) द्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः पउमं पअमं पइमं । पक्षे-पद्म । 'ओत्पी ' (११६१) प० → पो० । 'क-ग-ट-ड०' (२७७) द्लुक् । ३ अनादौ०' (२१८९) मस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः पोम्मं । [छउमं छअमं छइमं छम्मं] छद्मन् । 'अन्त्यव्यञ्जनस्य' (१।११) नलुक् । द्-म इति विश्लेषे अनेन वा मात्पूर्व उ० । द्वितीये अ० । तृतीये इ० । 'लोकात्' (१।१।३) छदुम छदम छदिम इति स्थिते 'क-ग-च-ज०' (१।१७७) द्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः छउमं छअमं छइमं । पक्षे-छद्मन् । 'अन्त्यः ' (१।११) नलुक् । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ०' (२।८९) मस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः छम्मं । [मुरुक्खो मुक्खो ] मूर्ख । 'हस्व: संयोगे' (१८४) मू० → मु० । र्-ख इति विश्लेषे अनेन वा खपूर्व उ० । 'लोकात्' (१।१।३) मुरुख । 'अनादौ०' (२२८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि।। 'अत: से?:' (३२) सि० → डो० → ओ० मुरुक्खो । पक्षे-मूर्ख । 'हुस्वः संयोगे' (१८४) मू० → मु० । 'सर्वत्र ल०' (२।७९) लुक् । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० मुक्खो । १-२. A. पअमं पइमं छअमं छइमं उदाहरणानि । ३. G 'सेवादौ वा' (२२९९) - G पाठां० - 'तैलादौ' (२२९८) ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy