________________
२२६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[कुसुम-प्पयरो कुसुम-पयरो] कुसुम-प्रकर । 'सर्वत्र०' (२१७९) लुक् । अनेन वा द्वित्वं-प्प० । 'क-ग-चज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० कुसुमप्पयरो । पक्षे-कुसुम-प्रकर । 'सर्वत्र०' (२७९) लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० कुसुमपयरो।
[देव-त्थुई देव-थुई ] देव-स्तुति । 'स्तस्य थोऽसमस्त-स्तम्बे' (२।४५) स्तस्य थः । अनेन वा थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वथस्य तः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् देवत्थुई । पक्षे-देव-स्तुति । 'स्तस्य थोऽसमस्त०' (२०४५) स्तस्य थः । 'क-गच-ज०' (११७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् देवथुई।
[हर-क्खन्दा हर-खन्दा] हरश्च स्कन्दश्च = हरस्कन्दौ । 'शुष्क-स्कन्दे वा' (२।५) स्कस्य खः । अनेन खस्य वा द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा औ । 'द्विवचनस्य बहुवचनम्' (३।१३०) औस्थाने जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) द० → दा० हरक्खन्दा । पक्षे-हर-स्कन्द । 'शुष्कस्कन्दे वा' (२५) स्कस्य खः । प्रथमा औ । 'द्विवचनस्य बहुवचनम्' (३।१३०) औस्थाने जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) द० → दा० हरखन्दा ।
[आणाल-क्खम्भो आणाल-खम्भो] आलान-स्तम्भ । आलानश्चासौ स्तम्भश्च । 'आलाने ल-नोः' (२।११७) लानस्थाने नाल० । 'नो णः' (१२२८) नस्य णः । 'स्तम्भे स्तो वा' (२८) स्तस्य खः । अनेन वा खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि । 'अतः सेोः' (३२) सि० → डो० → ओ० आणालक्खम्भो। पक्षे-आलान-स्तम्भ । द्वित्वं मुक्त्वा शेषं पूर्ववत् । आणालखम्भो ।
[स-प्पिवासो स-पिवासो] स-पिपास(सा) । सह पिपासया वर्त्तते यः सः = सपिपासः पुरुषः (२) । बहुलाधिकारात् शेषाऽऽदेशौ मुक्त्वा अन्यत्रापि भवति द्वित्वम्, ततोऽनेन वा द्वित्वं-पि० → प्पि० । 'पो वः' (१।२३१) पस्य वः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० सप्पिवासो सपिवासो ।
[बद्ध-प्फलो बद्ध-फलो] बद्ध-फल । बद्धं फलं यत्र सः = बद्धफलः । अनेन वा फस्य द्वित्वम् । 'द्वितीयतुर्ययो०' (२।९०) पूर्वफस्य पः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० बद्धप्फलो । पक्षे प्रकृतिरेव- बद्धफलो। . [मलय-सिहर-क्खण्डं मलय-सिहर-खण्डं] मलय-शिखर-खण्ड । 'श-षोः सः' (१२६०) शि० → सि० । 'ख-घ-थ-ध-भाम्' (११८७) खस्य हः । अनेन वा खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः मलय-सिहर-क्खण्डं । पक्षे-मलय-शिखरखण्ड । द्वित्वं मुक्त्वा शेषं पूर्ववत् । मलय-सिहर-खण्डं ।
[पम्मुक्कं पमुक्कं] प्रमुक्त । 'सर्वत्र०' (२७९) लुक् । अनेन वा मस्य द्वित्वम् । 'शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा' (२।२) क्तस्य कः । 'अनादौ०' (२।८९) कस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पम्मुक्कं । पक्षे-प्रमुक्त । मस्य द्वित्वं मुक्त्वा शेषं पूर्ववत् । पमुक्कं ।
[अहंसणं अदंसणं] अदर्शन । 'सर्वत्र०' (२७९) रलक् । 'वक्रादावन्तः' (१।२६) अनुस्वारः द० - दं० । अनेन वा दस्य द्वित्वम् । 'श-षोः सः' (१।२६०) शस्य सः । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अहसणं । पक्षे-अदर्शन । दस्य द्वित्वं मुक्त्वा शेषं पूर्ववत् अदंसणं ।