________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१६७
‘सर्वत्र०' (२।७९) लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अत: सेर्डो:' (३२) सि० डो० ओ० पावारओ ।
[ देउलं देवउलं ] देवकुल । अनेन वा सस्वरस्य वस्य लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः देउलं । पक्षे देवकुल । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । ‘क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः देवलं ।
[ एमेव एवमेव ] एवमेव । अनेन वा सस्वरस्य वस्य लुक् । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् एमेव । पक्षे - एवमेव । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् एवमेव ।
इति बृहत्तपागच्छे श्रीसौभाग्यसागरसूरिशिष्येण पण्डित श्रीहर्षकुलगणीन्द्रवचःप्राप्तप्रयोगरहस्येन उदयसौभाग्यगणिना लिखिताऽयं हैमप्राकृतवृत्तिदुण्ढिकायां व्युत्पत्तिदीपिकाभिधानायां सर्वप्रयोगविशेषव्युत्पत्तिप्रकाशिकायां प्रथमः पादः
समर्थितः ।
यद् दोर्मण्डल० इति काव्यम् ।