________________
१५४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
कृतो यः = कृद्यः, तद् दर्शयति - [ पेज्जा] पेया । अनेन वा यस्य ज्ज० । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक पेज्जा । [ पेआ] पेया । 'क-ग-च-ज०' (१।१७७) यलुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् पेआ ॥२४८॥
छायायां होऽकान्तौ वा ॥ ८१२४९ ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स च्छाही वच्छस्स च्छाया । आतपाभावः । सच्छाहं सच्छायं ॥ अकान्ताविति किम् ? मुहच्छाया । कान्तिरित्यर्थः ॥ [छायायां होऽकान्तौ वा] छाया सप्तमी ङि । ह प्रथमा सि । अकान्ति सप्तमी ङि । वा प्रथमा सि ।
[वच्छस्स च्छाही वच्छस्स च्छाया] वृक्षस्य । 'ऋतोऽत्' (१।१२६) वृ०→ व० । 'छोऽक्ष्यादौ' (२।१७) क्षस्य छः । 'अनादौ०' (२८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्०
→ स्स० वच्छस्स । छाया । अनेन वा यस्य हः । 'छाया-हरिद्रयोः' (३।३४) ङीप्रत्ययः । 'लुक्' (१।१०) आलोपः । 'लोकात्' (१।१।३) छाही । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् छाही । पक्षे-वच्छस्स छाया । पूर्ववत् ।
.. [सच्छाहं सच्छायं] स-छाया । सह छायया वर्तते यत् तत् = सच्छायम् । अनेन वा यस्य हः । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सच्छाहं । पक्षे-सच्छायं । 'क-ग-च-ज०' (१।१७७) य्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सच्छायं । __[मुहच्छाया ] मुख-छाया । मुखस्य छाया । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'ख-घ-थ-ध-भाम्' (१।१८७) ख० → ह० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् मुहच्छाया २४९॥
डाह-वौ कतिपये ॥ ८॥१२५० ॥ कतिपये यस्य डाह - व इत्येतौ पर्यायेण भवतः ॥ कइवाहं । कइअवं ॥ [डाहवौ कतिपये] डाहश्च वश्च = डाहवौ । प्रथमा औ। कतिपय सप्तमी ङि ।
[कइवाहं कइअवं] कतिपय । 'क-ग-च-ज०' (१११७७) त्लुक् । 'पो वः' (१०२३१) पस्य वः । अनेन यस्य डाह० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) कइवाह । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः कइवाहं । पक्षे-कतिपय । 'क-ग-च-ज०' (१।१७७) त-पयोर्लुक् । अनेन यस्य व० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः कइअवं ॥२५०॥
किरि - भेरे रो डः ॥ ८।१।२५१ ॥ अनयो रस्य डो भवति ॥ किडी । भेडो । [किरिभेरे ] किरिश्च भेरश्च = किरिभेरम्, तस्मिन् = किरिभेरे । सप्तमी ङि । [रो डः ] र् षष्ठी ङस् । ड प्रथमा सि ।