________________
१५२
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[अहाजायं] यथाजात । आर्षे यलुक् । 'ख-घ-थ-ध-भाम्' (१२१८७) था० → हा० । 'क-ग-च-ज०' (१११७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अहाजायं ॥२४५।।
युष्मद्यर्थपरे तः ॥ ८।१।२४६ ॥ युष्मच्छब्देऽर्थपरे यस्य तो भवति ॥ तुम्हारिसो । तुम्हकेरो ॥ अर्थपर इति किम् ? जुम्हदम्हपयरणं । [युष्मद्यर्थपरे तः] युष्मद् सप्तमी ङि । अर्थपर सप्तमी ङि । त प्रथमा सि ।
[तुम्हारिसो] युष्मादृशः । अनेन यस्य तः । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) ष्म० → म्ह० । 'दृशः क्विप्टक्-सकः' (१११४२) ऋ० → रि० । 'श-षोः सः' (१२२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० तुम्हारिसो।
[तुम्हकेरो] युष्मद् । युष्माकमयं = युष्मदीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'इदमर्थस्य केरः' (२।१४७) ईयस्य केरः । अनेन यस्य तः । 'पक्ष्म-श्म-ष्म०' (२७४) ष्म० → म्ह० । 'अन्त्यव्य०' (१।११) द्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० तुम्हकेरो। _ [जुम्हदम्हपयरणं] युष्मदस्मद्(त्)प्रकरण । 'आदेर्यो जः' (१।२४५) यस्य जः । 'पक्ष्म-श्म-ष्म०' (२७४) ष्म०स्म० → म्ह० । 'लोकात्' (१।१३) जुम्हदम्हद् । 'अन्त्यव्य०' (१११) द्लुक् । 'सर्वत्र०' (२७९) लुक् । 'क-गच-ज०' (१।१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्। 'मोऽनु०' (१९२३) अनुस्वारः जुम्हदम्हपयरणं ॥२४६।। .
यष्ट्यां लः ॥ ८॥१।२४७ ॥ यष्ट्यां यस्य लो भवति ॥ लट्ठी । वेणुलट्ठी । उच्छुलट्ठी । महुलट्ठी ॥ [यष्ट्यां लः] यष्टि सप्तमी ङि । ल प्रथमा सि ।
[लट्टी] यष्टि । अनेन यस्य लः । 'ष्टस्या०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२८९) ठस्य द्वित्वम् । 'द्वितीय०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् लट्ठी ।
[वेणुलट्टी] वेणुयष्टि । अनेन यस्य लः । 'ष्टस्या०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१११) स्लुक् वेणुलट्ठी ।
[उच्छुलट्ठी ] इक्षुयष्टि । 'प्रवासीक्षौ' (१।९५) इकारस्य उकारः । 'छोऽक्ष्यादौ' (२।१७) क्षस्य छः । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । अनेन यस्य लः । 'ष्टस्या०' (२३४) ष्टस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् उच्छुलट्ठी ।
[महुलट्ठी] मधुयष्टि । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) धस्य हः । अनेन यस्य लः । 'ष्टस्या०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् महुलट्ठी ॥२४७।।