SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ १४९ [गुंफइ ] 'गुफ ग्रन्थने (१३८३) गुम्फ् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० गुंफइ । [पुष्फं] पुष्प । प्रथमा सि । 'ष्प-स्पयोः फ:' (२०५३) ष्प० → फ० । 'अनादौ०' (२१८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः पुष्पं । [चिइ फणी] स्था । वर्त० तिव् । 'स्थष्ठा-थक्क-चिट्ठ-निरप्पाः' (४।१६) स्था० → चिट्ठ० । 'त्यादीनामाद्यत्रयस्या०' (३।१३९) तिव्० → इ० । 'व्यञ्जनाददन्ते' (४।२३९) अत् चिछ । [कसणफणी] कृष्ण-फणिन् । कृष्णश्चासौ फणी च = कृष्णफणी । 'ऋतोऽत्' (१।१२६) कृ० → क० । 'कृष्णे वर्णे वा' (२।११०) णात् प्राग् अ० । 'लोकात्' (१।१।३) कषण । 'श-षोः सः' (१२२६०) ष० → स० । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) न्लुक् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् कसणफणी ॥२३६।। बो वः ॥८॥१॥२३७॥ स्वरात् परस्य असंयुक्तस्य अनादेर्बस्य वो भवति ॥ अलाबूः → अलावू - अलाऊ | शबल: → सवलो ॥ [बो वः] ब् षष्ठी डस् । व प्रथमा सि । [अलावू] अलाबु(बू) । प्रथमा सि । अनेन बस्य वः । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् अलावू । [अलाऊ ] अलाबु(बू) । अनेन बस्य वः । 'क-ग-च-ज०' (१।१७७) व्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् अलाऊ । [सवलो] सबल । प्रथमा सि । 'श-षोः सः' (श२६०) श० → स० । अनेन बस्य वः । 'अतः सेोः' (३२) सि० → डो० → ओ० सवलो ॥२३७॥ बिसिन्यां भः ॥ ८॥१।२३८ ॥ बिसिन्यां बस्य भो भवति || भिसिणी ॥ स्त्रीलिङ्गनिर्देशादिह न भवति । बिसतन्तुपेलवाणं ॥ [बिसिन्यां भः] बिसिनी सप्तमी ङि । भ प्रथमा सि । [भिसिणी] बिसिनी । अनेन बस्य भः । 'नो णः' (१२२२८) नी० → णी० । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् भिसिणी। [बिसतन्तुपेलवाणं] बिसतन्तुपेलव । षष्ठी आम् । 'टा-आमोर्णः' (३।६) आमो णत्वम् । 'जस्-शस्-ङसि-तोदो-द्वामि दीर्घः' (३।१२) व० → वा० । 'क्त्वा-स्यादेर्ण-स्वोर्वा' (११२७) अनुस्वारः बिसतन्तुपेलवाणं ॥२३८॥ ___ कबन्धे म-यौ ॥ ८।१।२३९ ॥ कबन्धे बस्य म-यौ भवतः ॥ कमन्धो । कयन्धो ॥ [कबन्धे मयौ] कबन्ध सप्तमी ङि । मश्च यश्च = मयौ । प्रथमा औ । [कमन्धो] कबन्ध । प्रथमा सि । अनेन बस्य मः । 'अत: से?:' (३२) सि० → डो० → ओ० कमन्धो ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy