________________
१४४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[नीमो नीवो] नीप (२) । अनेन वा पस्य मः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० नीमो। पक्षे- 'पो वः' (१२३१) प० → व० नीवो ।
[आमेलो आवेडो] आपीड (२) । अनेम वा पस्य मः । 'एत् पीयूषा-ऽऽपीड०' (१।१०५) एत्वम् । 'डो लः' (१।२०२) ड० → ल० । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० आमेलो । पक्षे-आपीड । 'पो वः' (१०२३१) पी० → वी० । 'एत् पीयूषा-5ऽपीड०' (१।१०५) एत्वम् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० आवेडो ॥२३४||
पापद्धौ रः ॥८११२३५ ॥
पापद्धवपदादौ पकारस्य रो भवति ॥ पारद्धी ।। [पापर्धी रः] पापद्धि सप्तमी ङि । र प्रथमा सि ।
[पारद्धी ] पापद्धि । अनेन पस्य रः । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२।८९) द्वित्वम् (?) । प्रथमा सि। 'अक्लीबे सौ' (३।१९) दीर्घः- द्धि० →द्धी० । 'अन्त्यव्य०' (११११) स्लुक् पारद्धी ॥२३५।।
फो भ-हौ ॥८॥१॥२३६ ॥
स्वरात् परस्य असंयुक्तस्य अनादेः फस्य भ-हौ भवतः ॥
क्वचिद् भः - रेफ: → रेभो । शिफा → सिभा ॥ क्वचित्तु हः - मुत्ताहलं ।। क्वचिदुभावपि-सभलं सहलं । सेभालिआ सेहालिआ । सभरी सहरी । गुभइ गुहइ ॥ स्वरादित्येव - गुंफइ ॥ असंयुक्तस्येत्येव - पुष्पं ॥ अनादेरित्येवचिट्ठइ फणी ॥ प्राय इत्येव - कसणफणी ॥
[फो भहौ ] फ् षष्ठी ङस् । भ-ह प्रथमा ओ। [रेभो] रेफ । अनेन फस्य भः । प्रथमा सि । 'अतः से?ः' (३१२) सि० → डो० → ओ० रेभो।
[सिभा] शिफा । 'श-षोः सः' (१।२६०) शि० → सि० । अनेन फस्य भः । प्रथमा सि । 'अन्त्यव्य०' (१११) स्लुक् सिभा ।
[मुत्ताहलं] मुक्ताफल । 'क-ग-ट-ड०' (२७७) क्लुक् । 'अनादौ०' (२।९८) तस्य द्वित्वं-ता० → त्ता० । अनेन फस्य हः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । मोऽनु०' (१।२३) अनुस्वारः मुत्ताहलं ।
[सभलं सहलं] सफल (२) । अनेन फ० → भ० - हश्च । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सभलं सहलं ।
[सेभालिआ सेहालिआ] से(शे)फालिका (२) । अनेन फ० → भ०-हश्च । ['श-षोः सः' (१।२६०) शे० → से०] । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् सेभालिआ सेहालिआ ।
[सभरी सहरी] शफरी (२) । 'श-षोः सः' (१।२६०) श० → स० । अनेन फस्य भ-हश्च । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् सभरी सहरी ।
[गुभइ गुहइ] गुफ (१३८३)-'गुम्फत् ग्रन्थने' (१३८४) गुफ् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन फस्य भ-हश्च । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० गुभइ गुहइ ।