________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
सत्तावीसं जोयणकरपसरो जाव अज्ज वि न होइ । पडिहत्थबिंबगहवइवयणे ता वच्च उज्जाणं ॥
अर्थः - सत्तावीसं जोयणशब्देन चन्द्रः, तस्य करप्रसरो यावदद्यापि न भवति । हे प्रतिहस्तबिम्बग्रहपतिवदने ! प्रतिहस्तं - न्यक्कृतं बिम्बं - मण्डलं यस्य सः = प्रतिहस्तबिम्बः, प्रतिहस्तबिम्बो ग्रहपतिश्चन्द्रो यस्मात् तत् = प्रतिहस्तबिम्बग्रहपति, एवंविधं वदनं - मुखं यस्याः सा प्रतिहस्तबिम्बग्रहपतिवदना, तस्याः सम्बोधनं क्रियते । तावत् त्वमुद्यानं व्रजेत्यर्थः । ___ अत्र ऋ-ऋ-ल-ल-ऐ-औ-ङ-ब-श-ष-विसर्ग-प्लुता एतान्यक्षराणि न स्युः । ङ-जौ स्ववर्गसंयुक्तौ भवतः । केषाञ्चिन्मते ऐदौतौ भवतः । यथा
[कैअवं] कितवस्य भावः कर्म वा = कैतवम् । 'युवादेरण' (७।१।६७) अण्प्र० → अ । कितवस्य इदं वा = कैतवम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः - कि० → कै० । 'ऐत एत्' (१।१४८) इति प्राप्तेऽपि केषाञ्चिन्मते ऐत् प्राकृतेऽपि दृश्यते, अतो न भवति ऐकारस्य एकारः । स्वमते तु 'अइर्दैत्यादौ च' (१११५१) इति अइ प्राप्नोति । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे स्वरान्म् सेः' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः कैअवं । उक्तं च
कैअवरहियं पिम्म नत्थि च्चिय मामि ! माणुसे लोए । अह पिम्मं को विरहो ? अह विरहो कोवि जीए(अ)इ ? ||
अर्थः - हे मामि ! हे सखि ! कैतवरहितं - दम्भरहितं प्रेम मानुषे लोके नास्त्येव । अथ यदि एवंविधं प्रेम वर्तते तदा को विरहः ? अथ विरहस्तदा कोऽपि जीवति ? । अपितु न कोऽपीत्यर्थः ॥
उक्तं च हेमाऽनेकार्थेऽपि - "कैतवं द्यूत-दम्भयोः" । [अनेकार्थसङ्ग्रहे श्लोकः-६९१] अथ औकार:
[सौअरिअं] सोदरस्य भावः । 'पति-राजान्त०' (७१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः - सो० → सौ० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'क-ग-च-ज०' (११७७) द्लुक् । 'स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्' (२।१०७) यात् प्राग् इ० । 'लोकात्' (१।१।३) र० → रि० । 'क-ग-च-ज०' (१११७७) य्लुक् । 'क्लीबे स्वरान्म् से:' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः सौअरि ।
[कौरवा] कुरु । कुरोरिमे । 'उत्सादेरज्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः - कु० → कौ० । 'अस्वयम्भुवोऽव्' (७४/७०) अव्-रु० → रव० । प्रथमा जस् । अत्र 'औत ओत्' (१।१५९) इति प्राप्तेऽपि
औकारः स्थितः । 'जस्-शस्-ङसि-त्तो-दो-द्वामि दीर्घः' (३।१२) दीर्घः - व० → वा० । 'जस्-शसोलुंक्' (३४) जस्लुक् । अत्र स्वमते तु 'अउ: पौरादौ च' (१२१६२) इति अउ: प्राप्नोति । अत्र स्वररहितं व्यञ्जनं स्यादित्यादिविभक्तीनां द्विवचनं चतुर्थीबहुवचनं च न भवति ॥१॥
बहुलम् ॥ ८॥१२॥ बहुलमित्यधिकृतं वेदितव्यमा शास्त्रपरिसमाप्तेः । ततश्च क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव भवति, तच्च यथास्थानं दर्शयिष्यामः ॥ १.कइअवरहिअं पेम्मं णत्थि विअ मामि ! माणुसे लोए । अह होइ कस्स विरहो विरहे होतम्मि को जिअइ ॥
[गा० स० - २२२४ । शृ० प्र० - ३१॥३] कैतवरहितं प्रेम नास्त्येव मातुलानि मानुषे लोके । अथ भवति कस्य विरहो विरहे भवति को जीवति ॥ १. पाठां० शृ० प्र० - चिअ । २. शृ० प्र० - कस्को ।