________________
॥ अर्हम् ॥
॥ नमो नमः श्रीगुरुनेमिसूरये ॥
बृहत्तपागच्छीय-श्रीउदयसौभाग्यगणिविरचितया व्युत्पत्तिदीपिकाभिधान - दुण्डिकया समर्थितं सिद्धहेमप्राकृतव्याकरणम् ॥ [प्रथमो भागः ]
॥ अथ अष्टमाध्यायस्य प्रथमः पादः ॥
यस्य क्रमनमस्कारः, सारसौख्यविधायकः । स श्रीविश्वविभुर्जीयात्, तमांसि नितमां मम ॥ `सिद्धहेमाष्टमाऽध्याये, प्रोक्तं प्राकृतलक्षणम् । क्रियते दुण्डिका तस्य नाम्ना व्युत्पत्तिदीपिका |
अथ प्राकृतम् ॥ ८१ ॥१॥
इह च यथा संस्कृते लक्षणे धातुप्रत्ययादिसिद्धायां प्रकृतौ पश्चाद्विभक्त्यादिविधिः तथा प्राकृतलक्षणेऽपि प्राय: प्राकृतलक्षणसिद्धां प्रकृतिमाधाय तदनन्तरं विभक्त्यादिप्रक्रिया कर्तव्या, नान्यथा, रूपसिद्धिक्रमभङ्गप्रसङ्गादिति ।
अथ शब्द आनन्तर्याऽर्थोऽधिकाराऽर्थश्च । प्रकृतिः = संस्कृतम्, तत्र भवं तत आगतं वा प्राकृतम् । संस्कृताऽनन्तरं प्राकृतमधिक्रियते । संस्कृताऽनन्तरं च प्राकृतस्याऽनुशासनं सिद्ध-साध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्येति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् ।
प्राकृते च प्रकृति - प्रत्यय - लिङ्ग - कारक - समास - संज्ञादयः संस्कृतवद् वेदितव्याः । लोकादिति च वर्त्तते । तेन ऋ ॠ - लृ - लृ -ऐ-औ-ङ - ञ - श-ष- विसर्जनीय - प्लुतवर्ज्यो वर्णसमाम्नायो लोकादवगन्तव्यः । ङ- ञौ स्ववर्गसंयुक्तौ भवतः । ऐदौतौ च केषाञ्चित् । कैतवम् → कैअवं । सौदर्यम् सौअरिअं । कौरवाः → कौरवा । तथा अस्वरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं च न भवति ॥
→
[ प्राकृतम्] प्रकृतिः = संस्कृतम्, तत्र भवम् । 'भवे' (६।३।१२३) अणुप्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७४१) वृद्धिः । तत आगतं वा । 'तत आगते' (६।३।१४९) अणूप्र० अ ।
[ देश्यम् ] देशे भवं = देश्यम् । 'दिगादि-देहांशाद् य:' (६|३|१२४) यप्र० ।
*देश्यस्य प्राकृतमनेकधा । यथा
झल्लरिपउरे गामे इल्लपुलिंदाण सुम्मए सदो । तह सज्जिज्जइ चिच्ची सुहेण जह वोलए तुंगी ॥
अर्थः - अजाप्रचुरे ग्रामे व्याघ्राणां शब्दः श्रूयते तथा अग्निः सज्जीक्रियते, यथा सुखेन रात्रिरतिक्रामतीत्यर्थः ।
१. K. नितरां । २. K. सिद्धहै० । ३. K. रूपसिद्धिः । ४. K. देश्यं ।